________________ प्रथमः परिच्छेदः 219 न्द"इति अतिरीश्वर एव जीवस्यानन्द इति दर्शयन्ती जीवस्य तदात्मतामेव दर्शयति / एतस्यैवानन्दस्यान्यानि भूतानि मात्रामुपजीवन्तीति च परमानन्दांशत्वमेव जीवानन्दस्य दर्शयति / अंशत्वं च प्रतिबिम्बत्वम् / निरंशे तवन्यस्याभावात् // आत्मन आनन्दगुणकत्वं प्रसाध्य निरस्यति / न चानन्दशब्देनानन्दगुणकत्वमुच्यते न त्वात्माभेद इति. वाच्यम् / “उदरमन्तरं कुरुते अथ तस्य भयं भवति"इत्यल्पस्याप्यानन्दभेदस्य अत्यैवापोदितत्वात् / तथाऽन्यत्रापि “स योऽन्यमात्मनः प्रियं व्रवाणं ब्र यात् प्रियं ते रोत्स्यति" इति सुखस्य जीवान्यत्वं प्रतिषिद्ध्यते / अत एवानन्दशब्देन दुःखाभाव एवाभिधीयत इति प्रत्युक्तम् / सातिशयस्यानन्दस्य लोके भावरूपत्वात् / प्रतियोगिप्रतीत्यनपेक्षप्रतीतेश्च / अन्यथा वैपरीत्यस्थापि सुवचत्वात्। वेदेऽप्यानन्दशब्दार्थः स एव / सति किमीश्वरानन्दस्य स्रगादिवजीवानन्दहेतुत्वमुतेश्वरज्ञानादिवत् ? / नोभयथापीत्याह-अविषयस्येति / परानन्दस्य ज्ञानादिवत्सर्वनिमित्तत्वे मानाभावादितिभावः। ननु “आनन्दयाति' इति श्रुतेराकाशानन्दो जीवानन्दहेतुरिहोच्यते इत्यत्राह-जीवानन्दस्येति / अत्यन्तरे ज.वानन्देश्वरयोरभेदाभिधानात् “एष ह्येवानन्दयाति" इति विम्बप्रतिबिम्बभावो विवक्षित इत्यभिप्रेत्याह-एषोऽस्येति / किं घ जीवानन्दस्य परानन्दांशत्वाभिधानान्निरवयवानन्देऽवयवावयविविभागायोगात् बिम्बादिभावेनैवांशांशिभावो वक्तव्य इत्याह-एतस्यैवेति / / ननु यदेष आकाश आनन्दो न स्यादित्यत्रानन्दपदस्य मत्वर्थीयप्रत्ययान्तत्वादानन्दगुणक एवायमात्मेति तत्राह-न चानन्देति // . उत अपि अरं अल्पं अन्तरं भेदम् / ईषदपि भेदं यः कुरुते मन्यते तस्य भयं भवतीत्यर्थः। बृहदारण्यकश्रुतिरप्यात्मव्यतिरिक्तप्रियं निराकुर्वन्त्यात्मन एव प्रियत्वमाहेत्याह-तथान्यत्रापीति / य आत्मनः प्रेयस्त्वदर्शी स प्रियं सुखं आत्मनोऽन्यं,आत्मनो भिन्नंबवाणं परं प्रत्येवं ब्रयान ते प्रियं रोत्स्यति नश्यतीति भेदवादिनः शापो देय इतिश्रुत्यर्थः / दुःखाभावस्यैवानन्दत्वात् कथमात्मन आनन्दरूपत्व. मिति जरद्वैशेषिकमतं निराकरोति-अत एवेति / दुःखपदेव सुखेऽपि तरतमभावस्यानु. भवसिद्धत्वादभावे च तदसंभवाल्लौकिकानन्दस्तावद्भावरूप इत्याह-सातिशय