________________ 218 सटीकाद्वैतदीपिकायाम् भाव इत्यस्माद्यस्याभाव इत्यस्यैव लघुत्वात् / तस्मान्नित्यसिद्धसत्यात्मस्वरूपैव मुक्तिर्ज्ञानसाध्येति न स्वगोदिवत् कलिपता सेत्यसङ्गोदासीनचैतन्यमात्रात्मेति॥ आत्मनः निरतिशयानन्दरूपत्वसाधनम् सचायमात्मा निरतिशयानन्दस्वरूपः / "को ह्येवान्यात्कः प्राण्यात यदेष आकाश आनन्दो न स्यात् एष ह्येवानन्दयाति" इति श्रुतेः / न चात्राकाशशब्दार्थः परमात्मानन्दोऽभिधीयते, नतु जीव इति वाच्यम् / तस्यैव जीवस्वरूपत्वात् / अन्यथा जीवस्य प्राणने आकाशानन्दो हेतुर्नीच्येत / न ह्यन्यानन्देनान्यो जीवति / व्यधिकरणयोस्तयोरहेतुहेतुमत्वात् / पुत्राद्यानन्देनापि पितर्यानन्दान्तरस्योत्पादात्। न च जोवस्यापीश्वरानन्दनिमित्त आनन्दोऽस्त्विति वाच्यम् / बिम्बप्रतिबिम्बभावेन हेतुहेतुमत्ता सयोरुच्यते चेत्तत्वाभेद एव स्यात् / अविषयस्यपरानन्दस्य प्रकारान्तरेण जीवानन्दाहेतुत्वात्। जीवानन्दस्य परानन्दप्रतिविम्बस्वाभिप्रायैव "आनन्दयाति" इति श्रुतिः / “एषोऽस्य परम आन अविद्यानिवृत्तिरूपात्मस्वरूपस्यासुखरूपत्वे मुमुक्ष्वभिलषितत्वायोगात्तस्य सुखात्मतां साधयति-स चेति / तत्र तावच्छति प्रमाणयति-को ह्येवेति / एष आकाश आसमन्तात्काशते प्रकाशत इत्यात्मा। यद्यानन्दो न स्यात्तर्हि को वा जन्तुश्चेष्टेत / को वा प्राणधारणमल्पायासमनुभूयापि कुर्यादित्यर्थः। नन्वाकाशशब्दस्य परमात्मनि प्रसिद्धत्वात् स एवानन्दः कथ्यते, न तु प्रत्यगात्मेति चेन्न / एष इति प्रत्यक्षसिद्धप्रत्यगात्मन एव परमात्माभेदेनानन्दरूपताभिधानादित्याह-न चात्रेति / प्रत्यग्ब्रह्मणोरभेदाभिप्रायाभावे आकाशानन्दस्य जीवस्य प्राणधारणे व्यतिरेकमुखेन हेतुत्वाभिधानमनुपपन्नं स्यादित्याह-अन्यथेति / पुत्रानन्दं दृष्ट्वाऽहं जीवामीति केषांचिद् व्यवहारदर्शनाद् व्यधिकरणस्यापि तस्य जीवनहेतुत्वमित्याशङ्कयाह--पुत्रादीति / पुत्रानन्दश्चेपितुरिष्टस्तहीष्टवस्तुदर्शनेन पितर्यप्यानन्दो जायते स चेदनिष्टः नैव पितृजीवनहेतुरितिभावः / तद्येवमेवेश्वरानन्दजन्यो जीवानन्दस्तज्जीवनहेतुरिहोच्यत इत्याशङ्कयाह-न च जीवस्येति / किं जीवेश्वरानन्दयोर्बिम्बप्रतिबिम्बभावेन हेतुहेतुमत्ता उत प्रकारान्तरेण ? / आधे इष्टापत्तिरित्याह-बिम्वेति / द्वितीयेऽपि