________________ 264 प्रथमः परिच्छेदः तद्ध्वंसस्य तदजन्यत्वे तन्निवय॑त्वं कथमित्याशङ्कय निरस्यति / __ येन विना यत्तिष्ठत्येव यस्मिन् सति च न तिष्ठति तत् तन्निवर्यम् / प्रतियोगिनो ज्ञाननिवर्त्यत्वादविद्यानिवृत्तिर्ज्ञानसाइयेत्युपचर्यते / अथवा यस्मिन् सति यस्याग्रिमक्षणे सत्वं यद्व्यतिरेके चाभावस्तत् तत्साध्यम् / आत्मस्वरूपाविधानिवृत्तेश्च ज्ञाने सति सत्त्वं, तव्यतिरेके चाभावः / तत्प्रतियोग्यविद्याया एव तदभावरूपत्वात, तस्याः ज्ञानात्पूर्वकल्पिताया विद्यमानत्वात् / न च यदव्यतिरेके चासत्वमिति कार्यसत्वाभाव उच्यते / स चाविद्यानिवृत्ते स्ति, तस्याः सदात्मरूपत्वादिति वाच्यम् / यस्य सत्वा ____अनन्यथासिद्धस्य यस्योत्तरकालसम्बन्धिध्वंसप्रतियोगी यः स एव तन्निवर्त्यः, न तु ध्वंसस्य प्रागसत्वघटितोत्पत्तिरप्यपेक्ष्यते। गौरवादिति भावः / तत्र येन विनेति ज्ञानस्यानन्यथासिद्धत्वं दर्शितम् / तस्मिन् सतीत्यज्ञानस्य तदुत्तरकालवर्तिध्वंसप्रतियोगित्वमिति द्रष्टव्यम् / आत्मरूपाविद्यानिवृत्तेनिसाध्यत्त्वस्यापि वक्तु शक्यत्वान्न ज्ञानवैयर्थ्य मित्याह-अथवेति / यथा वैशेषिकादिमते प्रायश्चित्तभावे सति दुःखप्रागभावस्याग्रिमक्षणे सत्त्वं तदभावे तदभावो दुःखं भवत्येवेत्यनादेरपि दुःखप्रागभावस्य प्रायश्चित्तसाध्यस्वम्। यथा वा सर्वेषां मते दण्डादौ सत्यग्रिमक्षणे स्वकादाचित्काभावविरोधिघटादिसत्त्वं तदभावे चाभाव इति तत्तत्साध्यम् / अत एव नाकाशादेर्दण्डादिसाध्यता / तस्य दण्डादौ सति स्वकादाचित्काभावसत्त्वविरोधिसत्त्वं तदभावे तस्याभाव इत्यस्याभावात् / एवं तत्वसाक्षात्कारे सत्यग्रिमक्षणेऽविद्यात्मकस्वाभावसत्त्वविरोध्यात्मकचैतन्यसत्त्वं तदभावे तदभावोऽविचैवेति आत्मरूपाऽप्यविद्यानिवृत्तिर्ज्ञानमाध्या / न च ज्ञानानन्तर क्षणोपाध्यभावः / वृत्तेरेव तत्त्वात् / वृत्त्यभावे क्षणोपाध्यभावेऽपि ज्ञानार्थवत्त्वस्य सिद्धत्वाचरमकार्ये सर्वेषामस्मत्तुल्यत्वाच्चेति भावः। ननु यस्मिन् सति. यस्य सत्त्वं यद्व्यतिरेके चासत्त्वं साध्यप्रयोजकं नित्यसदात्मकाविद्यानिवृत्तेस्तदभावात्कथं साध्यतेत्याशङ्कयाह न च यदिति / यद्यतिरेके च यदसत्वं यस्य सत्त्वाभाव इत्येतस्याद्यदभाव इत्येतावदेव लघुतया प्रयोजकमित्याह-यस्य सत्त्वेति / वस्तुतस्तु यद्व्यति. रेकेऽसत्वमित्युक्तेऽपि न दोषः / अविद्यानिवृत्तिरूपात्मसत्ताया आत्ममात्रत्वात्तदभावात्मकाविद्यायाः ज्ञानाभावकाले विद्यमानत्वादिति द्रष्टव्यम् / नित्यसिद्धात्मरूपे मोक्षे स्वर्गादिवलक्षण्यस्य मुमुक्षप्रवृत्त्युपयोगिसाध्यत्वस्य च सत्त्वाच्चिदेकरस एवायमात्मेत्युपसंहरति-तस्मादिति / / 28