________________ 216 सटीकाद्वैतदीपिकायाम् मानाभिन्नसत्ताकप्रतियोगिकाभावत्वात् / तदन्योन्याभाववत् / अत्रापि तद्भदस्य दुर्निरूपत्वमनुकूलस्तकः श्रुतिरपि “यत्र त्वस्य सर्वमात्मैवाभूत्"इति सर्वस्य तद्भावापत्तिं दर्शयन्ती तदभावस्य तन्मात्रत्वं दर्शयति / अभावस्य ततो भेदे सर्वस्यात्मभावापत्त्यभावात् / तस्मादात्मैवाविद्यानिवृत्तिरिति / नन्वेवं कथं ज्ञानादज्ञाननिवृत्तिः / तस्याः नित्यात्मरूपतया तेन विनाऽपि सत्त्वात् / ततस्तदनिवृत्तौ च किं ज्ञानेन ? / न चाविद्याया अदर्शनार्थं तदिति वाच्यम् तस्यां सत्यां तदयोगात् / अदर्शनस्यापुरुषार्थत्वात् / किं चाविद्यानिवृत्तेरात्ममात्रत्वेऽविद्याप्यत्र न स्यात् ध्वंसस्य प्रतियोग्यनाधारत्वादिति चेत् / उच्यते / न तावदविद्यास्थित्यनुपपत्तिः / समानसत्ताकयोरेवाभावप्रतियोगिनोविरोधात् / अविद्यायाश्च कल्पितत्वात् / नापि ज्ञानवैयर्थ्यम् / असति ज्ञानेऽनर्थहेत्वज्ञानस्य विद्यमानतयाऽनर्थस्यापि स्थितः // अभावस्येति / मुक्तावपि दृश्याभावस्य सत्त्वे के पश्येदिति कर्माक्षेपायोगाच्चेत्यपि द्रष्टव्यम् यदर्थ रजताद्यभावस्याधिष्ठानात्मकत्वमुक्त्तं तदाह-तस्मादिति / नित्यसिद्धात्मन एवाविद्यानिवृत्तिरूपत्वे ज्ञानवैयर्थ्य मिति चोदयति-नन्वेवमिति / अविद्यानिवृत्तेरसाध्यत्वेऽपि तद्दशननिवृतिर्ज्ञानसाध्येत्यत्राह-न चाविद्याया इति / अविद्याया नित्यसाक्षिवेद्यतया तस्यां सत्यां तदर्शनं दुर्निवारमित्याह-तस्यामिति / अविद्यास्वरूपप्रयुक्तत्वादनर्थस्य तददर्शनमात्रं न पुरुषार्थ इत्याह-अदर्शनस्येति / किंचास्मिन् पक्षेऽविद्याया एवासंभवान्न तन्निवृत्तिस्तददर्शनं वा ज्ञानसाध्यमित्याहकि चेति / तत्र तावदविद्याऽप्यात्मनि न स्यादित्युक्तं परिहरति-उच्यते न तावदिति / इदानी ज्ञानसाध्यत्वाभावेऽपि तदभावकालीनानर्थस्य तन्निवय॑त्वसंभवान्न ज्ञानं विफलमित्याह-नापीति / तद्ध्वंसस्य तदजन्यत्वे कथं तस्य तन्निवय॑त्वं तज्जन्यध्वंसप्रतियोगिन एव तन्निवय॑त्वादित्याशङ्कयाह-- येनेति //