________________ प्रथमः परिच्छेदः , 229 त्वात् / ननु सुखस्यापुरुषार्थत्वेऽपि तत्कालीनदुःखानुत्पादः तत्राधिकः पुरुषार्थोऽस्तीति चेन्न / अनिष्टनिषेधशास्त्रात्तत्राप्रवृत्तिमात्रेण तत्सिद्धेः। तात्कालिकसुखसाधने बहुदुःखसाध्येऽपि परस्त्रीगमनादौ प्रवृत्तिदर्शनाच्च / तत्कालोनदुःखाभावस्याल्पत्वात्। न द्वितीयोऽपि / दुःखध्वंसार्थ दुःखमये कर्मणि प्रवृत्ती दुःखस्यापि पश्वादिवदुपादेयताप्रसङ्गात् / यागाधुनुष्ठानजन्यदुःखातिरिक्तदुःखस्य तन्निवयंस्थाभावात् / दुःखध्वंसस्यैव पुरुषार्थत्वे तव मते प्रायश्चिताननुष्ठानप्रसङ्गात् / उत्पन्नस्य दुःखस्य सुखमन्तरेणापि निवृत्तिसम्भवाच सुखं तत्र न हेतुः। निर्दुःख सुखस्योपयोगः। तद्गोचरप्रत्यक्षस्य तदजन्यत्वात् / अनुमितेश्चापुरुषार्थत्वात् , निरन्तरसुखधाराकामनाविरहप्रसङ्गाच / प्रति सुखं स्वर्गादौ तद्विनाश्यदुःखासंभवात् / - किं च दुःखात्यन्ताभावस्थापुरुषार्थत्वात् कादाचित्कदुःखाभावत्वं पुरुषार्थत्वावच्छेदकं वाच्यम् / ततश्च लाघवात् सुखमेव तथात्वात्तदुच्छेदभयाद्यागादी प्रवृत्तिर्न स्यादित्याह-नाद्य इति / ननु यागादिनाऽने ककाल सन्तन्यमानसुखोत्पत्तेस्तदथं तत्र प्रवृत्तिरित्यत आह-सुखस्येति / स्वर्गादिसुखार्थ न यागादौ प्रवृत्तिः, किन्त्वने ककालदःखानुत्पत्यर्थमिति शङ्कते-ननु सुखस्येति / निषेधशास्त्रपर्यालोचनया निषिद्धपरिवजनेनापि दीर्घकालदःखानुत्पादसभवात् काम्यविधिरनथक एव स्यादित्याह-नानिष्टेति / भाविदुःखाभावमनपेक्ष्यापि बहुदःखाभावनाशमङ्गोकृत्याल्पसुखार्थ प्रवृत्तिदर्शनान्न दुखाभावः पुरुषार्थ इत्याह -- तात्कालिकेति / तत्रापि सुखकाले दुःखानुत्पत्तये प्रवृत्तिरित्यत आहतत्कालीनेति / दःखध्वंस एव पुरुषार्थइतिपक्षे दःखस्य स्वध्वंसकारणत्वात्तदपीष्टसाधनतया कामनापूर्व कृतिसाध्यं स्यात् / तथा च तत्र द्वेषो न स्यादित्यभिप्रेत्याह-न द्वितीयोऽपीति / किं चास्मिन् पक्ष यागो विफलः स्यात् / अनुष्ठानकालीनदुःखाध्वंसस्य दृष्टप्रयत्नमात्रसाध्यत्वात्, स्वर्ग च यागनिवेत्येस्य दःखस्याभावादित्याह