________________ 214 सटोकाद्वैतदीपिकायाम् सत्तानवच्छेदकभेदवश्वम् / अतो घटाधिकरणकघटाभावस्य न तदभेदः। . घटाह्यभावस्याधिकरणादित्वनिश्चयः / ___ घटभूतलयोस्तु भेदः सत्तावच्छेदक एव / घटो भूतल. मित्यननुभवात् / अतो न तदमावस्य भूतलाभेदः, किं तु भेद एव / योऽभावः स्वाधिकरणाभिन्नसत्ताकप्रतियोगिको न भवति स त्वभावो भावाभिद्यते / घटे शुक्तिरजतं नास्तीति प्रतीय. मानाभावश्च तस्मादूभिन्नः / शुक्तिरजतस्य घटाभिन्नसत्ता. कत्वात् / न च भावप्रतियोगिकाभावस्य भावत्वं न दृष्टमिति वाच्यम् / तव प्रागभावस्य जन्यत्ववत् प्रध्वंसस्य नित्यत्ववदन्य. त्रादृष्टस्यापि प्रमाणवलादङ्गीकारे विरोधाभावात् / न च भावस्य सप्रतियोगित्वं विरुद्धम् / सादृश्यादेरभावप्रसङ्गात् / ब्रह्मणोपि सप्रपञ्चत्ववत्काल्पनिकं तदविरुद्धम् / एवं घटादीनामप्यभावी व्याख्यातौ / तस्मादधिष्ठानमेव कल्पितात्यन्ताभावः / एवं शक्तिरजताद्यभावस्याधिष्ठानाभेदप्रयोजकमुक्त्वा भूतले घटाद्यभावस्य तत्प्रयोजकाभावादधिकरणाझेद एवेत्याह-घटभूतलयोस्त्विति / . अत्रापि सामान्यप्रयोजकमाह-योऽभाव इति / शुक्तिरजताभावस्य शुक्ताविव घटादावपि किमधिकरणादभेद एव ? / नेत्याह-घट इति / नन्वभावप्रतियोगिकाभावस्यैव भावात्मत्वं द्रष्टं, न तु भावप्रतियोगिकाभावस्येत्याशङ्कय ध्वंस. प्रागभावात्मकस्य प्रागभावध्वंसात्मकस्य च घटस्य जन्यत्वानित्यत्वयोरन्यत्रादृष्टयोरप्यङ्गीकारादत्रापि न दोष इत्याह-न च भावेति / ननु भावप्रतियोगिकोऽभावो भावो न भवति, सप्रतियोगिकत्वाद् व्यतिरेकेण घटवदित्याशङ्कय सादृश्यादौ व्यभिचारेण दूषयति-न च भावस्येति / तर्हि सादृश्यवदेव प्रपश्चाभाव. रूपब्रह्मणोऽपि सप्रतियोगिकत्वं स्यादित्याशङ्कय प्रतियोगिसमसत्ताकं तदविरुद्धमित्याह-ब्रह्मणोऽपीति / एवं घटादेरपि मृदाद्यवच्छिन्नं चैतन्यमधिष्ठानतया एकोऽ. भावः, भूतलादिवृत्तिश्च प्रतियोगिविरहात्मैवापर इति सिद्ध्यति / प्रपञ्चस्य ब्रह्मविवर्तत्वात् , इत्याह-एवमिति / अधिष्ठाने प्रतीयमानरजताद्यभावस्य ततो भेदे बाधकसद्भावाद् अभेदे च बाधकाभावात्तदेव स इत्युपसंहरति -तस्मादिति / एवं