SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ 213 प्रथमः परिच्छेदः हारिकाविद्यादेब्रह्मणि व्यावहारिकाभावायोगाच्च / अभावस्य स्वाधिकणे स्वसमानसत्ताकप्रतियोगिविद्यमानत्वविरोधात् घटात्यन्ताभाववति घटाभावात् / अन्यथा तत्र घटभावबुद्धिः प्रमा स्यात् / अत एव न रजतात्यन्ताभावः प्रातीतिकः / तस्य तदानीमप्रतीतेश्च / तस्मात्कल्पिताभावोऽधिष्ठानमेव / ननु कल्पिताभावः प्रतियोग्यधिकरणं न भवति अभावत्वात् घटाद्यभाववत् / अन्यथा घटायभावोऽपि भूतलादिकमेव स्यात् / तथा च षष्ठप्रमाणव्युत्पादनमसङ्गतं स्यादिति चेन्न / योऽभावः स्वाधिकरणाभिन्नसत्ताकप्रतियोगिकः, स भावान्न भिद्यते / अभिन्नसत्ताकत्वं च प्रतियोगिनोऽधिकरणप्रतियोगिक तदभावस्याप्रतीतेश्च न तस्य प्रातीतिकत्वमित्याह-तस्येति / अधिष्ठानातिरेके उक्तदोषानिस्तारादधिष्ठानमेव कल्पिताभाव इत्युपसंहरति-तस्मादिति / कल्पिताभावस्याधिष्ठानमात्रत्वेऽनुमानविरोधं शङ्कते-नन्विति / विपक्षेऽतिप्रसङ्ग बाधकमाहअन्यथेति / इष्टापत्तिमाशङ्कयाह-तथाचेति / भूतलादेरेव घटाद्यभावत्वे तस्य प्रत्य. क्षादिगम्यतयाऽनुपलब्धिप्रमाणमभ्युपेतमनर्थक स्यादित्यर्थः / घटाभावादेः स्वाधिकरणाद्भेदे स्वाधिकरणभिन्नसत्ताकप्रतियोगिकत्वमुपाधिरित्यभिप्रेत्य साध्यव्यतिरेके उपाधिव्यतिरेकः प्रयोजक इत्याह-न, योऽभाव इति / स्वं आधेयत्वेनाभिमतोऽभावः तस्याधिकरणत्वेनाभिमतं यच्छुक्त्यादि तदभिन्नसत्ताकं यद्रजतादि तत्प्रतियोगि यस्य सोऽभावोभावादाधारत्वेनाभिमतान्न भिद्यते / यद्यदभिन्नसत्ताकं तत्प्रतियोगिकाभावस्ततो न भिद्यत इति समुदायार्थः। एवं च सति घटाधिकरणकघटाभावस्य घटमात्रतास्यादित्याशङ्कयाधिकरणामिन्नसत्ताकत्वं निर्वक्ति-अभिन्नसत्ताकत्वं चेति / अधिकरणप्रतियोगिकः सत्ताया अनवच्छेदकः अनिरूपको यो भेदस्तद्वत्त्वमित्यर्थः / इदमोऽधिष्ठानाद्रजतभेदश्च सत्तानवच्छेदक एव / रजतदशायामिदं रजतं नेत्यननुभवादिदं रजतमिति सामानाधिकरण्यानुभवाच्च / घटो घट इति सामानाधिकरण्याभावात्स्वस्मिन् स्वप्रतियोगिकभेदस्य सत्तानवच्छेदकस्याप्यभावात्तनिष्ठस्तदभावस्ततो भिद्यत इत्याइ-अत इति / एतच्चाभावस्य प्रतियोगिवृत्तित्वमभ्युपेत्योक्तम् / वस्तुतस्त्वभावस्य प्रतियोग्यनधिकरणत्ववत् प्रतियोगिनोडप्यभावानधिकरणत्वं तृतीये परिच्छेदे वक्ष्यति / तथा चाभिन्नसत्ताकपदं यथाश्रुतमेवेति द्रष्टव्यम् /
SR No.032852
Book TitleAdwait Dipika Part 01
Original Sutra AuthorN/A
AuthorS Subramanya Shastri
PublisherSampurnand Sanskrit Vishvavidyalaya
Publication Year1982
Total Pages298
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy