________________ 212 सटोकाद्वैतदीपिकायाम वस्य प्रतियोगिसमानसत्ताकत्वनियमात् ब्रह्मणोऽद्वितीयत्वश्रुति. विरोधप्रसङ्गाच। न च भावाद्वैतविषया सा। श्रुतौ भावपदाभावात् / संकोचकप्रमाणाभावाच। तस्य संविदतिरिक्तस्य संवित्सम्बन्धाभावेन ब्रह्मणस्तत्प्रत्यक्षत्वायोगाच / कल्पितं तादात्म्य. मस्तीति चेन्न / एवमपि मुक्तौ तदयोगात् / मुक्तौ विद्यमानपदार्थज्ञानाभावे ब्रह्मणोऽपि अज्ञत्वप्रसङ्गात् // अतिरिक्ताभावस्य कर्लपितत्वपक्षे व्यावहारिकत्वादिनिरसनम् / कल्पितश्चेन्न व्यावहारिकः / रजतस्य प्रातोतिकत्वेन तस्य तदयोगात् / प्रतियोगिसमानसत्ताकत्वाभावादभावस्य / व्याव करणस्य वाऽत्यन्ताभावस्य प्रतियोगित्वस्य मिथ्यात्वलक्षणत्वात्तत्काले तदभावो वक्तव्य इत्याह-मिथ्थेति / तस्याधिष्ठानादन्यत्वे पारमार्थिकत्वं, कल्पितत्वं वा स्यात् ?, नाद्यः / प्रतियोगिविरहैकस्वभावस्य प्रतियोगिसमानसत्ताकत्वनियमादित्याह-स चेति / अनन्ताभावानां परमार्थत्वे श्रुतिपीडा च स्यादित्याह-ब्रह्मण इति / अद्वितीय श्रुतेर्भावान्तराभावपरतया नाभावपारमार्थिकत्वेन विरोध इत्याशङ्कयाह-न चेति / किं च ब्रह्म स्वव्यतिरिक्तपारमार्थिकाभावं जानाति न वा / नाधः। दृग्दृश्ययोः सम्बन्धानिरूपणादित्याह-तस्येति / सम्बन्धाभावोऽ. सिद्ध इति शङ्कते-कल्पितमिति / सत्तानवच्छेदकभेदवत्त्वं हि तत्तादात्म्यं तच्चाभावस्य वास्तवत्वे न घटत इत्याह-नेति / अविद्यावस्थायां तदङ्गीकृत्यापि मुक्त्यवस्थायां तत्कल्पकाभावात्तदसम्बन्धमाह-एवमपीति / द्वितीये ब्रह्मणः सवज्ञत्व. हानिरित्याह-मुक्ताविति / ___ अतिरिक्ताभावस्य कल्पितत्वपक्षे व्यावहारिकत्वं वा प्रातीतिकत्वं वा स्यात् ? / नाद्यः / प्रतियोगिविरहात्मनोऽभावस्य प्रतियोगिसमानसत्ताकत्वनियमादित्याह-कल्पितश्चेदिति / किं चास्मिन् पक्षेऽविद्यादेव्यावहारिकस्य ब्रह्मणि स्थित्यनुपपत्तिः। स्वसमानसत्ताकत्वाभावकालीनतत्सामानाधिकरण्यविरोधादित्याह-व्यावहारिकेति / तत्र सोपपत्तिकं दृष्टान्तमाह-घटेति / अभावस्य स्वसमानसत्ताकप्रतियोगिसादेश्यविरोधादेव प्रातीतिकस्वपक्षोऽपि न सम्भवतीत्याह-अत एवेति / रजतकाले