________________ प्रथमः परिच्छेदः 211 तत्प्रतिकूलः। अविद्या च तहेतुः / एवं चानन्दात्मकब्रह्मविपरीतानर्थदर्शनेन नित्यात्मभूतोऽपि मोक्षो 'असत्कल्पो नास्ति' इत्यादिव्यवहारयोग्यो बभूव, ततश्चाकृतार्थता। निवृत्तेचाज्ञाने निरस्तनिखिलानर्थपरमानन्दात्मा प्राप्यत इवत्यविद्यानिवृत्तिरपुरुषार्थोऽपि काम्यते // अविद्यानिवृत्त : श्रुतिसिद्धात्मस्वरूपत्वम्समर्थनम् . अथवाऽविद्यानिवृत्तिरात्मैव / अस्ति तावच्छुक्तौ रजत. भ्रमानंतरमिह रजतं नासीदनुभूतरजतमनुभवदशायां शुक्ती नास्ति; इदं रजतानुभवकालेऽपि तदभाववदित्यादिबुद्धिः सा च प्रमा बाधाभावात् मिथ्यारजताश्रयस्य तदानीमपि तदभाववत्वनियमाच्च तद्घटितत्वात्तल्लक्षणस्य / स चाधिकरणादन्यश्चेत् न तावत्परमार्थः / अनिर्वचनीयाभावस्य परमार्थत्वारोगात् / अभा दुःखसंभेदघटकतया विषसंपृक्तान्नवदपुरुषार्थत्वबुद्धिसम्पादकत्वेन कृतार्थताबुद्धिप्रतिबन्धकतया पुरुषार्थविरोधित्वानिवृत्तिःकाम्यतइत्याह-न आनन्देति / असत्कल्पेइत्येतद्विवृणोति-नास्तीति / स्वप्रकाशात्मानन्दानभिव्यक्त्यात्मकतयाऽपुरुषार्थत्वभ्रमहेतावज्ञाने निवृत्ते स्वभाविकशुद्धपुरुषार्थाभिव्यक्त्या कृतार्थतेत्याह-निवृत्ते चेति / स्वप्रकाशमानन्दमशन्यं प्रपञ्चोपशमं शिवमद्वैतं यत्र त्वस्य सर्वमात्मैवाभूदित्यादिश्रुतिशतसम्मतपक्षमाह-अथवेति / अविद्याभावस्यात्ममात्रत्वं वक्त लोके कल्पिताभावस्याधिष्ठानात्मतां साधयितुमुपक्रमते-अस्ति तावदिति / इदं रजतमिति ज्ञानविरोधादभावज्ञानं भ्रम इत्याशङ्क्याह- सा चेति / रजतज्ञानात्पूर्वमभावज्ञानानुत्पत्तेः तद्वाधकत्वायोगादभावज्ञानस्य प्राप्तरजतज्ञानबाधमन्तरेणोत्पत्त्ययोगादभावज्ञानमेव तद्वाधकम् / तथाचोक्तम् पूर्व परमजातत्वादबाधित्वैव जायते / परस्यानन्यथोत्पादान्न त्वबाधेन संभव / / इति तथा चाभावज्ञानस्य प्रमात्वाद्रजतकालेऽपि तदभावोऽभ्युपेय इत्यर्थः / किं च रजतमिथ्यात्वस्य वक्ष्यमाणत्वात्स्वसमानाधिकरणस्य वा स्ववैयधिकरण्यानधि