________________ 210 सटीकाद्वैतदीपिकायाम् श्रवणादिविधेः सार्थकत्वम् / नन्वेवं ज्ञानाय श्रवणादिविधियर्थः / ज्ञानस्यैवानुपयोगात् / नचानर्थहेत्वविद्यानिवृत्तये तदिति वाच्यम् / अविद्यानिवृत्तेरात्मनोऽन्यत्वे जन्यत्वे चारोपितकर्तृसाध्यतया स्वर्गादिवदपुरुषार्थत्वापातेन तदर्थज्ञानान्वेषणायोगात् / आत्ममात्रत्वे चासाध्यत्वाज ज्ञानं व्यर्थमिति; मैवंम् / नाविद्यानिवृत्तिरात्मा, अभावत्वात् / सा च न पुरुषार्थः / सद्विलक्षणत्वात्, असुख. त्वाच्च / कित्वात्मैव परमानन्दःपुरुषार्थः / न चैवमविद्यानिवृत्तरप्रार्थ्यत्वात् तदुपायज्ञानप्रयासो व्यर्थः / पुरुषार्थप्रतिबन्धकनिवृत्तित्वेन तस्याः काम्यमानत्वात् / ततस्तनिवृत्त्युपायज्ञानसाधने नियोगोऽपि युज्यते / नन्वविद्या किं प्रतिबध्नाति 1 / न तावन्मोक्षस्वरूपम् / तस्याऽऽत्मस्वरूपतया सदाऽनपायात् / नापि तज्ज्ञानं तत एव इति चेन्न / आनन्दात्मस्वरूपो हि मोक्षः। अनर्थश्च दुःखात्मा ___ श्रवणादिसाध्यज्ञानस्य मोक्षेऽनुपयोगेऽपि अनर्थहेतुनिवृत्तावुपयोगान्नोक्तदोष इत्यत आह-न चानर्थेति / किमविद्यानिवृत्तिरात्मनो भिन्ना उताभिन्ना ?, उभयथाप्यनुपपत्तिरित्याह-अविद्यानिवृत्तेरिति / "न सन्नासन नसदसन्नानिर्वाच्योऽपि तत्क्षय" इति पञ्चमप्रकारमतेनाविद्यानिवृत्तेरात्मभिन्नत्वं ज्ञानजन्यत्वं चाह-नाविद्येति / यदुक्तमविद्यानिवृत्तिमिथ्याकत जन्यत्वे स्वर्गादिवन्न मुमुक्षपुरुषार्थतेति, तदिष्टापत्त्या परिहरति--सा चेति / सुखस्यैवाऽऽनन्दवादे पुरुषार्थताया वक्ष्यमाणत्वाच नेयं पुरुषार्थ इत्याह-असुखत्वाच्चेति / कस्तर्हि परमपुरुषार्थ इत्यत आहकिंत्वात्मेति / तमु विद्यानिवृत्तेरकाम्यतया तत्साधनानुष्ठानानुपपत्तिरित्याशङ्कय पुरुषार्थतया कामनामावेऽपि व्याधिनिवृत्तिवत्प्रतिबन्धकनिवृत्तितया तत्कामना घटतइति परिहरति-न चैवमिति / अविद्यायाःप्रतिबन्धकत्वे सत्येवं स्यात् तदेवानुपपन्नम् , प्रतिबन्धानिरूपणादिति चोदयति -- नन्विति / किं मोक्षं प्रतिबध्नाति उत तज्ज्ञानमिति किंशब्दार्थाः। आद्यं दूषयति-न तावदिति / तज्ज्ञानस्यापि स्वप्रकाशात्ममात्रतया सदा सिद्धत्वान्न तत्प्रतिबन्धोऽपीत्याह-नापीति / आत्मस्वरूपानन्दस्य तदभिव्यक्तेश्च नित्यत्वेऽपि तदनभिव्यक्तरूपाया अविद्यायास्तत्प्रतिकूल