________________ प्रथमः परिच्छेदः 206 जक्षत् क्रोउन्नित्यादिस्तु ब्रह्मस्वरूपप्राप्तस्यानवाप्तकामाभावादसंभावितार्थतया च स्तुतिः निखिलानन्दप्राप्तिपरा वा / अन्यथा “यत्र हि दैतमिव भवति तदितर इतरं पश्यतीत्यविद्यावस्थायामेव दर्शनादिविशेषप्रतिपादनस्य सर्वमात्मैवाभूतत्केन कं पश्ये दित्याविमुक्त्यवस्थायां सकलविशेषनिषेधस्य चायोगात् / एतेनात्मनोऽकर्तृत्वेऽनात्मनोऽपि तन्नेति काण्डवयं निरधिकारादप्रमाणमिति प्रत्युक्तम् / आत्मन एवारोपितमुख्यकर्तृत्वाभ्युपगमात् / तथा च पारमर्ष सूत्रद्वयं "कर्ता शास्त्रार्थवत्त्वात्" "यथा च तक्षोभयथा" इति / न चैवं मोक्षोऽपि स्वर्गवमृषा स्यादारोपितकर्तृजन्यत्वादिति वाच्यम् / मोक्षस्यनित्यात्मस्वरूपतया स्वर्गवन्मिध्याकर्तीजन्यत्वात् / परित इति / पञ्चममप्यन्यथयति-जक्षदिति / मुक्तस्य शरीरेन्द्रियादेरभावाद्धक्षणाद्ययोगादपीयं स्तुतिरित्याह-असंभावितेति / सर्वविषयाभिव्यङग्यानन्दाभिव्यक्तिपरा वेयं श्रुतिरित्याह-निखिलेति / मुक्त्यवस्थायामपि शरीरेन्द्रियादिपूर्वकविषय. भोगमङ्गीकुर्वाणं विषयलम्पटमर्वाचीनं प्रत्याह-अन्यथेति / मिथ्याकर्तृत्वस्यैवाऽsमोक्षमनुवर्तमानस्य भोगापवर्गादिव्यवस्थापकत्वात्तत्पारमार्थिकत्वत्य अतिप्रामाण्यानुपयोगात्परोक्तं चोद्यान्तरं निरस्तमित्याह-एतेनेति / उक्तमर्थबादरायणाचाय्यसूत्रसंमत्या द्रढ़यति-तथा चेति / आत्मनो मिथ्याकत्वमप्यनङ्गीकुर्वाणं सांख्यं प्रति विधिनिषेधादिशास्त्राप्रामाण्यप्रसङ्गादिन्यायैः प्रथमं कतृत्वमात्रं निर्णयामास-"कर्ता शास्त्रार्थवत्त्वात्" इति। पुनश्च वैशेषिकादिमतानुसारेण तत्कर्तृत्वं पारमार्थिकमित्याशङ्कयाह-यथा च तक्षोभयथेति / तक्ष्णो यथा वास्यादीतरकारकसमवधानप्रयुक्तं कर्तृत्वं, तदसमवधाने तु स्वाभाविकमकर्तृत्वमेव, तथाऽऽत्मनोऽपि शरीरेन्द्रियादिसमवधानप्रयुक्त कर्तृत्वं तदभिमानाभाववदशायां स्वाभाविकमकर्तृत्वमेवेति नास्य कर्तृत्वं स्वामाविकमित्यर्थः। ननु श्रवणादि कर्तृत्वादेरपि मिथ्यात्वे तज्जन्यमोक्षस्यापि तथात्वापातेन स्वर्गवन्मुमुक्ष्वभिलषितत्वानुपपत्तेरपुरुषार्थते. त्याशङ्कय तस्य मिथ्याकर्तृजन्यत्वमेवासिद्धमिति दूषयति-न चैवमिति / मोक्षस्य नित्यब्रह्मात्मस्वरूपत्वे श्रवणादेः पुरुषार्थांपर्यवसायित्वेन तद्विधानमनर्थकं स्यादिति चोदयति-नन्वेवमिति / 27