________________ 208 सटीकाद्वैतदीपिकायाम रूपेणाभिनिष्पद्य परं ज्योतिरुपसंपद्यत इति संबध्यते / परमिति विशेषणेन ब्रह्मरूपज्योतिष एव गन्तव्यत्वात् / न चानादिब्रह्मात्मनावस्थाने कस्य चित्कर्तृत्वमपेक्षितं भेदोपाधिनिवृत्त्यपेक्षयाच परं ज्योतिरुपसंपद्यत इति व्यपदिश्यते / न चास्माच्छरीरात्समुत्थायेति विदुषः समुत्थानकर्तृत्वविधिः अविद्याकार्येऽहङ्कारायनर्थे तादात्म्याभिमानेन मग्नस्यासत्कल्पस्य ततो विवेकस्यैव समुत्थानशब्दार्थत्वात्.। अन्यथा “न तस्य प्राणा उत्क्रामन्ति"इति. श्रुतिविरोधात् // . अत एव 'स तत्र पयेती त्यविवक्षितक्रियम् / परितः सर्वत एति सर्वात्मकब्रह्मप्राप्तः स्वयं सर्वात्मा भवतीति तात्पर्यम् / न च स्वशब्दस्य स्वीयपरत्वादागन्तुकधर्मान्तरविशिष्टरूपेगाभिनिष्पत्तिः कृतिसाध्येति वाच्यम् / भावकार्यस्यानित्यत्वनियमेन मोक्षस्यापि तथात्वापातादिति भावः। किञ्चाभिनिष्पद्यत इत्यनेन किं मुक्त्यवस्थायामात्मकर्तृत्वविधिः उत परं ज्योतिरुपसंपद्येत्यनेन ? किं वाऽस्माच्छरोरात्समुत्थायेत्यनेन, अथवा स तत्र पय्येतीत्यनेन, जक्षत् क्रीडन्नित्यादिना वा ? / प्रथमस्याविद्याकालीनकर्तृत्वविषयत्वान्न मुक्तात्मकर्तृत्वपरत्वमित्याह-तत्र तावदिति / वृत्तिसाक्षात्कार इति / अनादिस्वरूपस्य उत्पत्त्ययोगादित्यर्थः / द्वितीयं दूषयति-उपसंपत्तिश्चेति / तत इति / ब्रह्मसाक्षात्कारादित्यर्थः / ज्योतिरूपसंपद्येति ज्योतिः समीपगमनकर्तृत्वमेव प्रतीयते इत्याशङ्क्याह -अनुत्क्रान्तेति / नन्वेवं सति उपसंपद्याभिनिष्पद्यत इत्युपसंपत्तेरभिनिष्पत्तिपूर्वकालीनत्वाभिधायकक्त्वाश्रुत्यनुपपत्तिरित्याशङ्क्य मुखं व्यादाय स्वपितीत्यादिवत्तदुपपत्तिरित्यभिप्रेत्याह-क्त्वाप्रत्ययश्चेति / नन्वादित्यादिज्योतिरुपसंपद्य स्वेन रूपेणाभिनिष्पद्यत इति यथाश्रुतयोजनैव किं न स्यादित्यत आहपरमिति / नन्वेवमपि ब्रह्मस्वरूपेणावस्थानकर्तृत्वं मुक्तस्यावश्यकमित्याशक्य कृत्ययोग्ये कर्तृत्वायोग इत्याह -न चानादीत / कथं तमु पसंपत्तेरागन्तुकत्वादि. निर्देश इत्यत आह-भेदोपाधीति / तृतीयेऽपि न मुक्त्यवस्थायां कर्तृत्वविधिरित्याह-न चास्मादिति / शरीरत्रयविविक्तात्मज्ञानस्यैव समुत्थानशब्दार्थत्वाचकत त्वस्याविद्याकालीनत्वादिति हेतुमाह-अविद्येति / / ब्रह्मैव सन् ब्रह्माप्येतीत्यादिश्रुतिविरोधादेव चतुर्थेनापि न गमनकर्तृत्वमुच्यते इत्याह-अत एवेति / अविवक्षितक्रियमविक्षितगमनमित्यर्थः / किपरं तहीदं वचनमित्यत आह