________________ प्रथमः परिच्छेदः 207 शास्त्रविरोधः। तस्य कर्तरपेक्षितोपायपरत्वेन. कत्त त्वादावतात्पर्यात् / न च देवताविग्रहवदन्यपरादपि वाक्यात्कत्त त्वादि. सिद्धिः / अविरोधे हि देवताविग्रहन्यायावतारः। अत्र च भूयान् श्रुतिन्यायविरोधः / न च परं ज्योतिरुपसंपद्येत्यादिश्रुतिविरोधः / स्वरूपं हि जीवस्य ब्रह्मवाविद्यया तिरोहितमिव प्रतीयमानं विद्ययाऽऽविर्भवति ततोऽन्यस्य संसारदशायां तिरोहितस्य मुक्तावाविर्भविष्यतोऽभावात् // ( मुक्तयवस्थायाः कृतिसाध्यत्वनिरसनम् ) प्रागविद्यमानस्य स्वरूपत्वाभावेन स्वेन रूपेणेति निर्दे. शानुपपत्तेः तत्र तावदभिनिष्पद्यते इत्येतन्न मुक्त्यवस्थाकर्तृत्वविधिः अभिनिष्पत्तिर्यहं ब्रह्मेतिवृत्तिसाक्षात्कारः। तत्कर्तृत्वं चाविद्याकालीनमिति बुध्यभिन्नः श्रवणादिकर्ता तत्कर्ता / उपसंपतिश्च ततः केवलानन्दब्रह्मरूपेणावस्थानम् / अनुत्क्रान्तप्राणस्य विदुषः स्वस्वरूपब्रह्मसमोपगमनानुपपत्तेः / क्त्वाप्रत्ययश्च स्व. स्वात् व्यतिरेकेण घटवदित्यनुमानं श्रुत्यादिविरोधादयुक्तमित्याह-एतेनेति / कर्तृस्वादिबन्धस्य शबलात्मधर्मत्वे मोक्षसामानाधिकरण्यानुपपत्तिरित्युक्तं चोद्यमपवदति-न च विशिष्टस्येति / विशिष्टस्वरूपयोर्वास्तवभेदाभावेन केवलस्यापि कल्पितसंसाराश्रयत्वात्तस्य मोक्षसामानाधिकरण्यमित्याह-अशनायेति / ननु प्रज्ञया वाचं "समारुह्य" मनसाह्येव पश्यति इत्यादि श्रुत्या बुद्धेः करणत्वनिर्देशात् केवलात्मन एव कर्तृत्वमित्मत आह-न चेति / बुद्धः श्रुतिन्यायसिद्धकर्तृत्वाविरोधिकरणत्वसंभवे तद्विरुद्धकरणत्वायोगादिति हेतुमाह-कर्तृत्वादीति / यदुक्तं स्वर्गकामो यजेतेत्यादिविधिवाक्यप्रमेयत्वादात्मकर्त्त त्वं पारमार्थिकमिति; तन्न / तस्य कत्रंशानुवादेन साध्यसाधनविशेषसम्बन्धपरत्वादित्याह--नापीति / ननु विधिपरेणापि मन्त्रार्थवादादिना यथा देवताविग्रहादिपञ्चकसिद्धिः तथाऽन्यपरादप्यात्मक त्वसिद्धिरित्यत आह-न च देवतेति / यच्चोक्तं स्वरूपाविर्भावलक्षणमुक्तावपि कर्तृत्वश्रवणात् तत्परमार्थ मेवेति; तन्न। अविद्यानिवृत्तिलक्षणस्वरूपाभिनिष्पत्तेः कृत्यसाध्यतया कर्तृत्वानपेक्षणादित्याह-न च परं ज्योतिरिति / आगन्तुकस्यैव कस्य चित्स्वरूपस्याभिनिष्पत्तिः कृतिसाध्या भविष्यतीत्याशङक्याह--प्रागिति /