________________ 206 सटीकाद्वैतदीपिकायाम् प्रथमश्लोके कर्तारं केवलं यः पश्यति स न पश्यतीति परस्य भ्रमः, स्पष्ट कत्तु त्वनिषेधकतद्वचनबाधात् / ( तत्रैवं सति इत्यादिनाऽपरोक्षभ्रमसिद्धस्यैव कर्तृत्वस्य निषेधः ) आत्मनोऽकत्तत्वज्ञानस्य लोकेऽप्रसिद्धस्य निषेधायोगात् कात्मप्रत्यक्षप्रमाविरोधेन परोक्षाकत्मिभ्रमायोगेन निषेधानुपपत्तेः अपरोक्षभ्रमसिद्धमेव कत्तत्वं निषिद्ध्यते / एतेन केवलस्यात्मनः कर्तृत्वानुमानं प्रत्युक्त वर्णितप्रतिकूलतर्कविरोधाच्च / न च विशिष्टस्य कर्तत्वे मोक्षस्य वैषधिकरण्यम् / अशनायाद्यतीतस्यास्मन एव बुद्धितादात्म्येन कलिपतकर्तत्वाश्रयत्वात् / न च "प्रज्ञया वाचं समारुह्ये"त्यादिश्रुत्या बुद्धः करणत्वनिर्देशात्कथं तस्याः कर्तृत्वाद्याश्रयकोटिप्रवेश इति वाच्यम् / कत्तत्वादिधर्माश्रयस्यापि बुद्धरात्मनि तदारोपनिमित्तत्वेन करणत्वात् / आरुण्याघाश्रयस्यापि कुसुमस्य मणाविवारुणिमारोपे / नापि ज्योतिष्टोमादि अधिष्ठानं तथा कर्ता करणं च पृथग्विधम् / विविधा श्च पृथक् चेष्टा दैवं चैवात्र पञ्चमम् / / शरीरवाङमनोभिर्यकर्म प्रारभते नरः। न्याय्यं वा विपरीतं वा पश्चैते तस्य हेतवः” / इति श्लोकद्वयेन कर्तृत्वादेरौपाधिकत्वाभिधानादनन्तरश्लोकेन च केवलामनि तन्निषेधात्तन्मिथ्यात्वमुपेयमित्याह-भगवानपीति / उक्तार्थदाायोद्धवं प्रत्यपि भगवदुक्तं वचनमुदाहरति-तथेति / ननु तत्रैवं सति कर्तारमित्यत्र कर्तारं सन्तं केवलमकर्तारं यः पश्यति स न पश्यतीत्येवार्थः किं न स्यादित्यत आह-अत एवेति / अतःशब्दार्थमाह-स्पष्टमिति / शोकहर्षभयक्रोधेत्यादिना भगवतैव कर्तृत्वादिप्रयोजकधर्माणामात्मनि निषेधविरोधादित्यर्थः। किश्च केवलं यः पश्यति स न पश्यतीति निषिध्यमानमकात्मज्ञानं प्रमा, उत भ्रमः ? / नाद्यः-तन्निषेधायोगात् ? द्वितीयेऽपि कि प्रत्यक्षभ्रमः, उत परोक्षभ्रमः / उभयथाप्यप्रसक्तप्रतिषेधप्रसङ्ग इत्याह-आत्मन इति / उक्तदोषेण परपरिकल्पितार्थायोगात्केवलं सन्तमात्मानं कर्तारं यः पश्यति स न पश्यतीत्येवार्थ इति निगमयति-अपरोक्षेति / मुक्त्याश्रयात्मा कर्त्ता आत्म.