________________ प्रथमः परिच्छेदः 205 इतिस्मृतेश्च। विशिष्टप्रज्ञाशालिनामपि मित्रमृत्युप्रभृतीनां "मीषास्मादातः पवते भीषोदेति सूर्य" इत्यादिश्रुत्या परमेश्वराज्ञाकिंकरत्वश्रवणाच्च / तथापि स्वामिनियोगेन कर्तापिकत्व भवति / अन्यथा परमेश्वरस्य कारयितृत्वादिव्यपदेशायोगात् / तस्य च कुर्वविषयत्वात् / तथा चेवशब्दो न साधुः। न हि राजाज्ञया युध्यमानो भृत्यो युध्यमान इवेति प्रयुञ्जते / अस्ति च मिथ्यात्वे तत्प्रयोगः 'अरुण इव स्फटिको दृश्यते' इति / तस्मादिवशब्दस्य मिथ्यात्वमत्रार्थः / भगवानपि कर्तृत्वादेरौपाधिकत्वमुक्त्वा केवलात्मनि निषेधति / . "तत्रैवं सति कर्तारमात्मानं केवलं तु यः / पश्यत्यकृतबुडित्वान्न स पश्यति दुर्मतिः" इति / / तथा श्रीभागवते भगवद्वचनम्"शोकहर्षभयक्रोधलोभमोहस्पृहादयः / / अहङ्कारस्य दृश्यन्ते जन्म मृत्युश्च नात्मनः" इति / चेतनधर्मत्वेनाभिमतानां शोकादीनां जनिमरणधर्म्यहकारधर्मत्वं दर्शयति, केवलात्मनि च प्रतिषेधति / अत एव "स्वतन्त्रः कर्त्ता" इत्यनुशासनात्स्वातन्त्र्यनिषेधे कत्त्वस्यैव निषेधात्तन्मिथ्यात्वमेवेति दूषयति--न तदिति / परेच्छाधीनकत्तु त्वमिवशब्दार्थो न तु कत्त त्वनिषेध इति शङ्कते ननु स्वातन्त्र्यमिति / जीव-यापारमात्रस्येश्वरेच्छाधीनत्वमङ्गीकरोति-सत्यमिति / श्वभ्रं-नरकम् / कैमुतिकन्यायेनाप्यस्मदादिव्यापारस्येश्वराधीनत्वमाह-विशिष्टेति / अस्मिन्पक्षे इवशब्दासामञ्जस्यप्रदर्शनाय ज.वकत्तु त्वस्य मुख्यतामाह-तथापीति / जीवस्य कर्तृत्वाभावे एष ह्येव साधु कर्म कारयतीत्यादेरनुपपत्तिरित्याह --अन्यथेति / एवं जीवस्य मुख्यकतृत्वमुपपाद्य तवशब्दोऽनथेक इत्याह-तथा चेति / नन्विवशब्दस्य सादृश्ये प्रयोगात् मिथ्यात्वमपि न तदर्थं इत्यत आह-अस्ति चेति / उभयत्र प्रयोगाविशेषे कथं मिथ्यात्वमेव प्रकृते ग्राह्यमित्याशङ्कय स समान इत्यादिवाक्यपर्यालोचनया मिथ्यात्वमेव तदर्थ इत्याहतस्मादिति /