________________ 204 सटीकातिदीपिकायाम .षेण प्रतिपन्नस्यापि योगस्य पदार्थयोग्यतानुसारेण व्यवस्थासंभवात् स्रवेणावद्यतीतिवत् / “स समानः सन्नुभौ लोकावनुसंचरति ध्यायतीव लिलागतीव" इति श्रुतिः कर्तृत्वस्य बुद्ध्युपाधिस्वमिवशब्देन तस्य मिथ्यात्वं च दर्शयति। "सधीः स्वप्न" इतिश्रुतिनिर्दिष्टबुडितादात्म्यस्यैव समानशब्दार्थत्वात्। ' ( इवशब्दस्य मिथ्यात्वार्थकत्वप्रतिपादनम् ) नन्विवशब्देन जीवस्य स्वातन्त्र्यं निषिध्यते, न तु मिथ्याकर्तृत्वमुच्यते इति चेन्न / तन्निषेधस्यैव तन्निषेधत्वात् / स्वतन्त्र एव हि कर्ता। ननु स्वातन्त्र्यमानं न निषेधति, किन्तु भृत्य इव स्वामिनियोगेन, परमेश्वरनियोगेनैवायं करोतीतीवशब्द आहेति चेत् / सत्यम् / अयं परमेश्वरतन्त्र एव निमेषादिब्यापारेऽपि "एष ह्येव साधु कर्म कारयति'इत्यादिश्रुतेः। "अज्ञो जन्तुरनीशोऽयमात्मनः सुखदुःखयोः। ईश्वरप्रेरितो गच्छेत् श्वभ्र वा स्वर्गमेव वा" // दिन्द्रियविशिष्टस्य भोगे तद्रहितान्धादे गाननुसन्धानापत्तश्चेत्याह-तस्येति / मनस्युक्तदोषाभावात्तादात्म्यमेव योग इत्याह-मनसस्त्विति / आत्मभोगप्रयोजकस्य शरीरादियोगस्याविशेषेण श्र तस्यापि पदार्थयोग्यतानुसारेण व्यवस्था सदृष्टान्तामुपपादयति-अविशेषेणेति / "स्रवेणावद्यति" "हस्तेनावद्यति' ' स्वधितिनावद्यति' इत्यविशेषणावदानमात्रसाधनतया अ ताना हस्तादीनां योग्यतानुसारेण हस्तेन संहतपुरोडाशस्यैवावदानं, स्वधितिना मांसस्य व स्र वेणाज्यादिद्रवद्रव्यस्यैवेति यथा व्यवस्था तद्वदित्यर्थः। ऐहिकामुष्मिकभोगार्थसञ्चारस्यौपाधिकत्वनिर्देशादपि भोक्तृत्वादिकमौपाधिकमित्याह–स समान इति / स आत्मा समानः बुद्ध्यैक्यमापन्न इत्यर्थः / न त्वत्र सादृश्यं समानपदार्थः चिदात्मनो जडात्मकबुद्धिसादृश्यायोगात् / तत्सादृश्यस्य विभ्वात्मनो लोकद्वयसंचारोपपादकतया निर्देशायोगांच्चेति भावः / औपाधिकस्यापि कर्तृत्वादेः पारमार्थिकत्वाशङ्कां श्रुतिरेवापवदतीत्याह-ध्यायतीवेति / ननु स समान इत्यत्र कथं बुद्धितादात्म्यावगम इत्याशङ्कय वाक्यशेषवशादित्याह–स धीरिति / ध्यायतीवेत्यादाविवशब्दस्यान्यार्थत्वान्न ध्यातृत्वादेमिथ्यात्वसिद्धिरिति चोदयति नन्विवेति /