SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ प्रथमः परिच्छेदः 203 मनसः मध्यमपरिमाणत्वंसिद्धान्तः एतेन मनसः सावयवत्वे कल्पनागौरवमिति प्रत्युक्तम् / कार्यद्रव्यस्य सावयवत्वनियमात् / अहमितिप्रत्यक्षविषयस्य परिच्छिन्नत्वानुभवाच्च / तस्मात्सावयवं वृद्धिहासादिधर्मवच्च मन इति। न चान्तःकरणस्यानियतपरिमाणप्रत्युक्तदोषः। एकस्यैव जलूकादिद्रव्यस्य न्यूनाधिकपरिमाणदर्शनात्। __"आत्मेन्द्रियमनोयुक्तं भोक्तत्याहुर्मनीषिणः" // इति अतिरपि मनोऽभिन्नस्यैव भोक्तत्वं दर्शयति / तत्र चेन्द्रियशरीरयुक्तत्वमात्मनो भोक्तः सत एव तत्तदिन्द्रियशरीरसहकृतत्वमात्रम्। नतु चक्षुरादितादात्म्यविशिष्टस्यैव भोगः तस्याहंबुद्धयगोचरत्वात् तेषां प्रत्येकं व्यभिचारात् / अन्धादेरपि रूपादिभोगप्रतिसन्धानाच्च। मनसम्तु तादात्म्यमेवात्मनायोगः ।अविशे त्वेऽपीति | मनःसङ्कोच विकासावेव निमित्ताभावादनुपपन्नावित्याशङ्कयाणुत्वमते इन्द्रियान्तरसंयोगजनकमनःक्रियेव दृष्टकारणाभावाददृष्टाधीनावेवैतावित्यभिप्रेत्याह-क्रमिकेति / दृष्टनियामकाभाव एवादृष्टस्य नियामकत्वाभिधानादेवापरमपि चोद्यमयुक्तमित्याह - अतएवेति / अदृष्टाधीननियमेन परमते चक्षुराद्यपलापश्च प्रसज्यतेत्याह--परमतेऽपीति // मनसो मध्यमपरिमाणत्वे तदवयवास्तद्धर्माश्चेत्यनेककल्पनागौरवं प्रामा. णिकत्वान्न दोषायेत्यभिप्रेत्याह-एतेनेति / कार्यद्रव्यस्येति / अतित एव कार्यत्वस्य गुणवत्त्वस्य च सिद्धत्वादित्यर्थः / अन्तःकरणस्य कालभेदेन वृद्धिहासाभ्युपगमे परिमाणभेदेन धर्मिभेदापत्तेः स्मृत्यनुभवकर्त्त त्वभोक्तत्वादीनां वैयधिकरण्यं स्यादित्यत आह-न चेति / ननु प्रतीयमानात्मपरिच्छेदस्योक्तोपाध्यधीनत्वेऽपि भोक्तत्वा. दिकमात्मनश्चैतन्यवत्स्वाभाविकमेव किं न स्यादित्यत आह-आत्मेति / शरीर. मात्मपदार्थः / श्रुत्या विशिष्ट यैव भोगाभिधानादहं भुञ्ज इति प्रत्यक्षमपि तद्विष. यमेवेत्यपिशब्दार्थः / ननु शरीरेन्द्रिययोरप्यत्रोपात्तत्वान्मनोऽभिन्नस्यैवेति कथमुक्तमित्याशङ्कय तयो गोपकरणतयैवात्मयोगो विवक्षितः / मनसस्तु भोक्त्रुपाधित या तादात्म्येनेति विशेषमाह-तत्रचेति / अहंबुद्धिगोचरोपाधेरेवात्र निरूप्यमाणत्वाजाप्रदादिदेहस्य चक्षुरादीन्द्रियस्य च प्रत्येकं वैलक्षण्येनैकरूपाहबुद्धिविषयत्वायोगा
SR No.032852
Book TitleAdwait Dipika Part 01
Original Sutra AuthorN/A
AuthorS Subramanya Shastri
PublisherSampurnand Sanskrit Vishvavidyalaya
Publication Year1982
Total Pages298
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy