________________ 200 सटीकाद्वैतदीपिकायाम् बुद्धर्गुणेनाऽऽराममात्र इति तस्य बुद्ध्योपाधिकत्वप्रतिपादनात् / न चाऽऽत्मगुणेनाराममात्र इति योजना बुद्धर्गुणेनेत्यस्यानन्व. यात् / स्वत एवाराग्रमात्रस्याराग्रस्येवानित्यताप्रसङ्गात् / तस्मा. दात्मगुणेन महानपि बुद्धेर्गुणेनाराममात्र इतियोजना / अध्याहारस्य परमतेऽप्यावश्यकत्वात् / जीवस्याणुत्वनिरसनम् न चात्मगुणेनाराममात्रजीवो बुद्धेर्गुणेन दृष्ट इत्यन्वये नाध्याहार इति वाच्यम् / अनित्यताबाधकस्योक्तत्वात, गुणेति वैयात, परमते बुडेरेव दर्शनत्वात, ज्ञाने गुणाभावाच्च / “घटसंवृत्तमाकाशं नीयमाने घटे यथा / घटो नीयेत नाकाशं तबज्जीवो नभोपमः। "यथा ह्ययं ज्योतिरात्मा विवस्वा. नपोभिन्ना बहुधैकोऽनुगच्छन्" / "उपाधिना क्रियते भेदरूपी देवः क्षेत्रेष्वेवमजोऽयमात्मा" // च्छिन्नात्मनि मुख्यैवेत्याह-आराग्रेति / सन्निधानादात्मगुणेनैवाराप्रमात्र इति योजनोचितेत्याशङक्येतरपदानन्वयप्रसंगेन दूषयति-न चात्मेति / आरामोपमितस्य मध्यमपरिमाणत्वेनानित्यतापातश्चेत्याह-स्वत एवेति / तर्हि सिद्धान्तेऽप्यात्मगुणेनेत्यस्यानन्वय इत्यत आह-तस्मादिति / अध्याहार एव तर्हि दोष इत्याशक्य परमतेऽपि बुद्धेर्गुणेन महानपीत्यध्याहारस्यावश्यकत्वात् तथा चानित्यत्वस्यापरिहा. य॑त्वादित्यभिप्रेत्याह-अध्याहारस्येति / / ननु बुद्धिगुणशब्देन ज्ञानस्य विवक्षितत्वान्नान्वयानुपपत्तिः नवाऽध्याहार इत्याशङ्क्याह-न चात्मेति / बुद्ध्या दृष्ट इत्येतावता विवक्षितार्थसिद्धेः षष्ठीगुणपदयोवयथ्य चेत्याह--गुणेति / वस्तुतः सिद्धान्ते एवेदृशी योजना घटते अवरो बुद्धेर्गुणेनारा. प्रमात्र आत्मगुणेनैव कल्पितभेदेन गुणवद्गुणः साक्षिचैतन्यं तेनैव दृष्टः, न तु घटादिवत्प्रमाणजन्यवृत्त्येति वक्तुं शक्यत्वादिति भावः / जीवस्य ब्रह्मात्मना सर्वगतत्वस्यानन्यथासिद्धश्रुत्यन्तरेण निश्चितत्वाच्चाराप्रश्रुतिरुक्ताभिप्रायेत्याहघटसंवृतमिति / आकाशोपमानश्रुतेर्मशकादिवत् क्रमेणानेकदेशगतत्वपरत्वान्जलसूर्यो