________________ प्रथमः परिच्छेदः 201 इतिश्रतिद्वयेनाकाशजलसूर्योपमोपादानाजोवः सर्वगत एव ब्रह्मरूपेण उपाधिना च परिच्छिन्न इवेति निश्चीयते / एतेन जीवस्य सर्वगतत्वश्रुतिः सर्वत्र भोगार्थ तस्य गमनपरा नाणुत्वेऽपि विरुद्ध्यतइति प्रत्युक्तम् / आकाशदृष्टान्तेन स्वतो गमन निषे. धात् / तस्मान जीवोऽणुरिति / ततः प्रादेशिकात्मविषयोऽहमनुभवः कल्पितात्मविषय इति स एव कर्ता भोका च, न तु केवल उपाधितादात्म्यरहित इति। स चोपाधिर्बुद्धिरन्तःकरणं मनोविज्ञानमित्यादिशब्दाभिवेयः तस्यैवाहबुद्धिमोचरत्वात् / ___"बुद्धेर्गुणेनात्मगुणेन च"इत्यादिश्रुतौ परिमाणवत्तावगमात् बुद्धिरपि द्रव्यम् / “विज्ञानं यज्ञं तनुत" इति श्रुत्या कृत्यायत्वावगमात् विज्ञानमपि द्रव्यम् / तच्च मन एव, विज्ञायतेऽनेनेति व्युत्पत्तः। पमानश्रुतेश्चानेकशरीरेष्वन्तर्याम्यभेदपरत्वान्न जीवस्यापरिच्छेदादिनिश्चय इत्याशक्याह-एतेनेति / एतच्छब्दार्थमाह-आकाशेति / "देवः क्षेत्रवेवमजोऽयमात्मा" इति प्रत्यक्ष सिद्धजीवात्मन एव जलसूर्योपमितत्वादन्तर्यामिनानात्वस्याप्रसक्तस्तद्भेदस्योपाधिकत्वाभिधानायोगाच्चेति द्रष्टव्यम् / स्वभावतोऽपरिच्छिन्ने जीवे परिच्छिन्नतादात्म्यादेव : परिच्छेदानुभव इत्युपसंहरति-तस्मादिति / एवकारार्थमाह-नत्विति / केवलपदार्थमाह - उपाधीति / जीवगतकतृत्वाद्युपाः पराभिमतान्तः करणादिवैलक्षण्यं वक्तुमाइ-स चेति / पराभिमतान्तः करणादेरप्रत्यक्षत्वादस्मदभिमताज्ञानस्य परिच्छिन्नत्वेन प्रतिभासायोगादिन्द्रियाणाश्चान्धादिसाधारणाहबुद्ध्ययोग्यत्वात्स्वप्ने मनुष्यशरीराभावेऽप्यहंबुद्धिदर्शनात् / बुद्ध्यादिपदाभिधेयदुःखादिपरिणाम्येव जीवोपाधितयाऽहंबुद्धिगोचर इत्याह तस्यैवेति / बुद्धिविज्ञानादिशब्दाभिधेयस्य गुणत्वात्कथं दुःखादिमत्त्व मित्यत आह बुद्धेर्गु. जेनेति / तथापि कथं मनसि विज्ञानशब्द इत्याशक्याधिकरणसाधनस्य करणसाधनस्य वा तस्य वृत्तिज्ञानाधिकरणे आत्मनि तदारोपनिमित्ते च मनसि सम्भवादित्याह तच्चेति / 26