SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ प्रथमः परिच्छे 196 तस्यापरिच्छिन्नत्वविषयवाक्यशेषविरोधात् / एकस्य पारमार्थिकविरुद्धपरिमाणद्वयायोगात् // आनन्त्यस्यौपाधिकत्वमणुत्वस्य रवाभाविकस्वम् / अण्वात्मन्यौपाधिकमहत्वायोगाद्वाक्यशेषेणोपाधिकानन्त्यमनूद्यत इति वक्तुमयोगाच्च / न चानन्त्यमित्यनेकत्वं नित्यत्वं वोच्यते, न त्वपरिच्छिन्नत्वमिति वाच्यम् / न तावत्प्रतिशरीरमनेकत्वं बहूनामेकत्र समवाये विरुद्धदिकक्रियया सद्य एव शरीरविदारणप्रसङ्गात् स्वीयनिखिलभोगप्रतिसन्धानेनैकत्वावधारणाच्च / नाप्यनन्तेषु शरीरेषु जीवोऽनन्तइति प्रतिपाद्यत इति वाच्यम / प्रतिशतीरं चेष्टादिलिङ्गादेवाणोरात्मनः प्रतिशरोरं भेदसिद्धौ तदुपदेशवयात् जीवानेकत्वस्य प्रयोजनाभावेन श्रुत्याsप्रतिपाद्यत्वाच्च / न चानधिगतेऽर्थेऽपरिच्छिन्नत्ये तात्पर्ये संभवति अनुवादो युज्यते। श्रुतेरुत्सर्गतोऽनधिगतार्थत्वात् / अत एव न नित्यत्वमपि तस्यार्थः / तस्याप्यणुत्वसामर्थ्याद्वाक्यशेषप्रतिपन्नापरिच्छिन्नत्वसामर्थ्यादेव वा सिद्धः। आराममात्रश्रुतावपि श्रुत्यैव आनन्त्यमेवौपाधिकमणुत्वं च स्वाभाविकमिति वैपरीत्यमेव किं न स्यादि. त्यत आह --अण्वात्मनीति / अपरिच्छिन्नाकाशादेः परिच्छिन्नघटायुपाधित्वदर्शनाज्जीवापरिच्छेदाननुभवादनुवादायोगाच्चेति भावः ।जीवस्य नानात्वं नित्यत्वं वा वाक्यशेषार्थः / अतो नाणुत्वस्य तद्विरोध इत्याशङ्क्याह-न चानन्त्यमिति / नानात्वमानन्त्यमिति पक्षे किं प्रतिशरीरं नानात्वमुतानन्तशरीराभिप्रायेण ? | आद्ये व्यवहारानुपपत्तिरित्याहन तावदिति / वरगोष्ठीवत्क्रमेण कस्य चित्कश्चिद्भोग इति नोक्तदोष इत्याशक्य तथात्वे एकशरीरवर्तिनिखिलभोगस्यैकेनानुसन्धानानुपपत्तिरित्यभिप्रेत्याह-स्वीयेति / द्वितीये किं जीवनानात्वं प्रति गद्यते उतानूयते ? नाद्यः / तस्यान्यतः प्राप्तत्वात् , प्रयोजनाभावाच्चेत्यभिप्रेत्याह-नाप्यनन्ते ष्वति / औत्सर्गिकानधिगतार्थबोधकत्वे बाधकाभावाद् द्वितीयोऽपि न युक्त इत्याह-न चानधिगत इति / अन्यतः प्राप्तत्वादेव न जीव नित्यत्वं तदर्थ इत्याह- अतएवेति / परमते स्वमते च नित्यत्वस्यान्यतः प्राप्ति क्रमेण शयति--तस्यापीति / 'बुद्धगुणेन” इत्यादिश्रुतिरपरि
SR No.032852
Book TitleAdwait Dipika Part 01
Original Sutra AuthorN/A
AuthorS Subramanya Shastri
PublisherSampurnand Sanskrit Vishvavidyalaya
Publication Year1982
Total Pages298
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy