________________ 198 सटीकाद्वतदीपिकायाम् इतिपूर्ववाक्ये निखिलेन्द्रियाग्राह्यस्य केवलतपआयगोचरस्य ध्यानैकलभ्यस्य परस्यैव प्रस्तुतत्वाच्च / न चैष इति प्रत्यक्षत्वनिर्देशात्प्राणधारणनिर्देशाच जीव एवायमिति वाच्यम् ।अणोरप्रत्यक्षत्वात्। न च तद्गुणस्य प्रत्यक्षत्वात् सोऽपि प्रत्यक्ष इति वाच्यम् / ज्ञानादेरणुवृत्तित्वे तस्याप्यप्रत्यक्षत्वात्, गुणस्य प्रत्यक्षत्वेऽपिततोऽत्यन्तभिन्नस्य गुणिनः प्रत्यक्षत्वायोगाच्च / अन्यथाss. काशस्थापि प्रत्यक्षत्वप्रसङ्गात्। व्यवहितप्रदीपस्य प्रभायां गृह्यमाणायामप्यग्रहणात् सर्वाधारे परस्मिन्नपि प्राणसंवेशनसंभवाच्च / तस्मादस्मिन्वाक्ये स्वप्रकाशतया प्रत्यक्षसिद्धस्य जीवस्य पराभेदाभिप्रायेणाणुरिति दुर्दर्शत्वमुच्यते। अगोरणीयानित्यादिना परस्य तन्निर्देशवत् / बालाग्रशतभागस्येति श्रुत्यापि स्वतोऽ. नन्तस्य ब्रह्मात्मना जीवस्याल्पपरिमाणबुद्ध्यवच्छेदकनयाऽल्पत्वमात्रमुच्यते, न त्वणुत्वम् / अन्यथा “स चानंत्याय" इति पुरःसरं ध्यायमानो वेदान्तप्रमाणेन तं परमात्मानं साक्षात्कुरुत इत्यर्थः। नन्वेष इति प्रत्यक्ष लिङ्गात् “यस्मिन्प्राणः पञ्चधा संविवेश" इति वाक्यशेषावगतप्राणधारणलिङ्गाश्च दुर्बलसंनिध्यनुगृहीतमेकं ब्रह्मलिङ्ग बाध्यत इति चेत् / न प्रत्यक्ष त्वस्य तावदण्वात्मलिङ्गत्वानुपपत्तेरित्याह - नचैष इति / अप्रत्यक्षत्वादिति / जीवस्थाप्यणुत्वेऽप्रत्यक्षत्वापातादिति शेषः / ननु गुणिप्रत्यक्षत्वे प्रत्यक्षगुणवत्त्वं प्रयोजक न तु महत्त्वादि' इत्याशंक्याणुत्वे प्रत्यक्षगुणवत्त्वमेवानुपपन्नमित्याह-न च तद्गुणेति / अन्यप्रत्यक्षत्वेन अन्यस्य प्रत्यक्षत्वेऽतिप्रसङ्ग इत्यभिप्रेत्याह-गुणस्येति / गुणगुणिभावस्य नियामकत्वान्नातिप्रसङ्ग इत्याशङ्क्याह-अन्यथेति / अण्वात्ममते दीपप्रभायास्तद्गुणत्वात्कचित्तग्रहेऽपि महानपि दीपो न गृह्यते किमु वक्तव्यमण्वात्मनीत्यभिप्रेत्याह-व्यवहितेति / द्वितीयलिङ्गस्य परस्मिन्नपि संभवान्न तद्विरोध इत्याह- सर्वाधार इति / परमात्मपरिग्रहेऽप्येषोऽणुरिति श्रुतिद्वयानुपपत्तिरित्याशङ्कां निराकुर्वन्नपसंहरति -- तस्मादिति / दुर्शयत्वाभिप्रायेणाणुशब्दप्रयोगोऽन्यत्रापि दृष्ट इत्याह-अणोरिति / महतो महीयानिति वाक्यशेषात् दुईयत्वमेव तत्राणीयस्त्वमितिभावः / बालाप्रश्रुतिरपि पुत्तिकाद्यन्तः करणोपाधिकपरिच्छेदानुवादेन जीवस्य ब्रह्मात्मनाऽपरिच्छेदपरेत्याह-बालाग्रेति / मात्रचो व्यावत्यमाह-नत्विति / स्वाभाविकाणुत्वपरत्वे दोषमाह अन्यथेति /