________________ प्रथमः परिच्छेद: 197 न चात्मनोऽनणुत्वे "बालग्रशतभागस्य" "आराग्रमात्रो ह्यवरोऽपि दृष्ट" इत्यादिश्रुतिविरोधः / उदाहृतश्रुतावणुत्वबोधकपदाभावात् / न च बालाग्रायुतभागोपमितस्याणुत्वं विना न परिमाणान्तरं कल्पयितुं युक्तमिति वाच्यम् / बालापायुततमभागस्य वैशेषिकादिमतसिद्धाणोरप्यतिसूक्ष्मत्वापत्या श्रुतिबाधप्रसङ्गात् / उदाहृताराग्रश्रुतिविरोधाच्च कलपनानुपपत्तेः / नह्याराग्रस्य वैशेषिकादिमतसिडाणुत्वमस्ति / न च "एषोऽणुरात्मा चेतसा नेदितव्यः" इति श्रुतिविरोधः / तस्याः परमात्मविषयस्वात्। नेदितव्यत्वनिर्देशात् / न हि परस्मादन्यस्य वेदितव्यात्वम्। परमात्मन एव वेदितव्यत्वकथनम् / "न चतुषा गृह्यते नापि वाचा नान्यैर्देवैस्तपसा कर्मणा वा। ज्ञानप्रसादेन विशुद्धसत्त्वस्ततस्तु तं पश्यते निष्कलं ध्यायमानः" / प्रतिपादयति, उत श्रुतार्थानुपपत्त्या ? / नाद्य इत्याह-उदाहृतेति / बालाप्रशतभागस्य शततमभागो बालाग्रायुतभागः तदुपमितत्वमणुत्वं विना नेति द्वितीयं पक्षं निराकरोति-नचवालेति / बालाग्रञ्चतुरणुकं पञ्चाणुकं वा स्यात् परमाणोश्च तच्छततमभागत्वस्याप्यसंभवादयुततमभागत्वं बाधितमित्याह--बालाग्रेति / बालाप्रायुततमभागत्वेनाणुत्वं लक्ष्यत इत्याशङ्क्याह उदाहृतेति / आराग्रस्यापि सूझस्वान्न तद्विरोध इत्याशङ्क्याह-न हीति / आरेति तोत्रप्रोतायःशलाकोच्यते / तदग्रस्य प्रत्यक्षत्वेन महत्त्वात् / इतरथा तदप्रसिद्धयोपमैव न स्यादित्यर्थः / अत्यन्तरे साक्षादेव जीवाणुत्वं सिद्धमित्यत आह-नचैष इति / अस्यां श्रुतौ परमात्मलिङ्गदशनान्न जीवपरतेत्याह-तस्या इति / जीवस्यापि वेदितव्यत्वमस्तीत्याझ्याह न हीति / "यस्मिन् द्यौः पृथिवी चान्तरिक्षमोतंमनः सह प्राणेश्च सवैः। तमेवैकं जानथ आत्मानमन्या वाचो विमुञ्चथेति परस्यैव वेदितव्यत्वावधारणादित्यर्थः। सन्निधानादपि परमात्मैव तदर्थ इत्याह -न चक्षुषेति / अन्यैर्देवैरन्यैरपीन्द्रियैरित्यर्थः / ज्ञायतेऽनेनेति ज्ञानं वेदान्तवाक्यं, तस्य प्रसादोऽसंभावनाद्यभिभवाभावः / तपआदिना विशुद्धसत्त्वस्तदनन्तरं श्रवणादि