________________ 166 सटोकाद्वैतदीपिकायाम् पूरणाच्च / न चैवं नखलूनपुष्पेऽपि तथात्वप्रसङ्गः। अदृष्टस्य कार्यगम्यत्वात्। अन्यथा सद्योऽपचितकुसुमेष्वेकगन्धगमनानन्तर गन्धान्तरारम्भवत् तत्रैव पर्युषितेषु गन्धप्रसङ्गात् / अणौ चाऽऽत्मनि शिरःपाण्याद्यवयवावच्छेदभेदेन युगपत् तुल्यबलवत्सुखदुःखसामग्रोदये सति युगपत्सुखदुःखायोगात / अवश्वभेदे प्रयत्नयोगपनि रासः। एवं हस्तद्वयावच्छिन्ने युगपत्प्रयत्नद्वयायोगात। न च प्रयत्नोऽप्ययमेक एव / मध्येऽपि तदुपलम्भप्रसङ्गात् / सर्वशरीर. चेष्टाप्रसङ्गाच्च / सगुणज्ञानफलस्य युगपदनेकशरीरपरिग्रहस्यानुपपत्तेश्च / मोगातिशया) ह्यात्मनोऽनेकशरीरपरिग्रहः / न च निरात्मशरीरेषु भोगः सम्भवति तदाश्रयस्यात्मनोऽभावात् / एतेनाणोरप्यात्मनो ज्ञानस्य विभुत्वाद्युगपदनेकशरीरं तद्वारा आत्माऽधितिष्ठतीति निरस्तम् / तथाप्याश्रयाभावेन तत्तच्छरोरेषु सुखानुत्पत्तेः। मात्रादवयवसन्धाने नख संछिन्नपुष्पादावपि तथा स्यादित्याशक्य तत्र तादृशादृष्टे प्रमाणाभावान्मैवमित्याह-न चैवमिति / अदृष्टस्यानियामकत्वे दृष्ट कारणमात्रस्यापि कुसुमेऽपि सत्त्वात्तदाऽपि पूर्व वदेव गन्धःस्यादित्याह -अन्यथेति / किंचावात्मनो युगपच्छिरःपाण्याद्यवयवावच्छेदाभावादवयवभेदेन व्यवस्थित सुखदुःखयोगपद्यमनुभूयमानं न स्यादित्याह-अणौ चात्मनीति / एवमवयवभेदेन प्रयत्नद्वययोगपद्यमपि न स्यादित्याह-एवमिति / एक एव प्रयत्नोऽवयवद्वयव्यापीत्याशङक्याह-न चेति / “स एकधा भवति त्रिधा भवति पञ्चधा सप्तधा नवधा" इत्यादिश स्त्रसिद्धानेकशरोरपरिग्रहोऽपि युगपदण्वात्मन्यनुपपन्न इत्याह-सगुणेति / अनुपपत्तिमेव स्फोरयति-- भोगातिशयेति / अण्वात्मगतज्ञानस्य शरीरान्तरख्यापित्वात् तद्वारा भोगसम्भव इत्यत आह -एतेनेति / ज्ञानस्य द्रव्यत्वे गुगत्वे वाप्याश्रयासंसष्टदेशगामित्वमसम्भवीत्युक्तप्रायम् / तदङ्गीकृत्यापि दूवयति तथापीति / निरात्मकघटादिषु सुखाद्यनुत्पादवत्तादृशशरीरान्तरेऽपि तथा स्यादित्यर्थः। जीवाणुत्वस्य अतिसिद्धस्य कथं युक्तिमात्रण निरास इत्यत आह-न चेति / किमुदाहृतश्रुतिमुखतोऽणुत्वं