________________ प्रथमः परिच्छेदः 165 क्रियाश्रयत्वे द्रव्यत्वप्रसंगाच / न च प्रदीपप्रभादृष्टान्तोऽपि, तस्या गुणत्वे मानाभावात् / द्रव्यत्वव्यवस्थापकक्रियादेः सत्त्वाच्च / सुखादीनांद्र व्यत्वनिरासः। अस्तु सुखादिकमपि द्रव्यमिति चेन्न। कार्यद्रव्यस्यापि गणवत्स्वसमवायिनं विहायाऽन्यत्र गमनायोगात् / प्रदीपस्तु प्रभायां निमित्तमात्रं, उपादानं तु तत्प्रदेशा अवयवा एव / प्रर्द पा. जन्यत्वमात्रेणैव प्रदीप प्रभाव्यवहारः। देवदत्तपुत्र इतिवत / सुखमपि तर्हि स्वावयवारब्धं निमित्तात्मतन्त्र प्रभावदिति चेत् न / सुखत्वस्यावयवावयविवृत्तित्वे प्रमाणाभावात्। अनेकसुखकल्पने गौरवाच्च / न च गुण एव सुखादिरुत्पद्यमानः शरीरदेशं व्याप्नोतीति वाच्यम् / आश्रयप्रदेशादन्यत्र गुणानुत्पत्तेः / अत एव वाय्वानीतगंधदृष्टान्तोऽपि परास्तः। गन्धस्याश्रयेण सहैव गमनात् / अदृष्टोपनीतावयवान्तरेण पुष्पादि क्रियाश्रयत्व इति / प्रदीपप्रभाया गुणत्वेऽपि सावयवत्वादिकं दृष्टमित्याशक्याहन च प्रदीपेति / आद्यविकल्पे द्वितीयपक्षं शङ्कते-अस्त्विति / अत्रापि किमण्वात्मैव सुखोपादानमुत सुखावयवाः ? / आये दोषमाह-- न कार्येति / जलौकादेरपि स्वोपादानरहितप्रदेशेऽभ वादिति भावः / दीपोपादानप्रभाया गृहळ्यापित्ववदण्वात्मोपादानसुखादेर्देहव्यापित्वमित्याशक्य दृष्टान्तासम्प्रतिपत्त्या दूषयति-प्रदीपस्त्विति / ननु पटरूपमितिवत्प्रदीपप्रभेति व्यवहारस्तदुपादानत्वं विनाऽनुपपन्न इत्याशङ्क्याह प्रदीपेति / द्वितीय पक्षं शङ्कते-सुखमपीति / द्रव्योपादानस्य स्वकायवृत्तिद्रव्यत्वव्याप्यजातिमत्त्व नियमात्सुखावयवानामपि सुखत्वं वक्तव्यं, तथा च युगपदनेकसुखानुपलब्धिविरोधः कल्पनागौरव चेत्याह सुखत्वस्येति / गुणत्वपक्षे देशान्तरं व्याप्येवोत्पद्यत इति पक्षं दूषयति-न च गुण इति / गुणात्य स्वाश्रयसम्बन्धद्वारेणैव देशान्तरसम्बन्धनियमादव गन्धदृष्टान्त ऽप्यसम्प्रतिपन्न इत्याह अत एवेति / केषांचित्पुष्यावयवानामितस्ततो गमनेऽवयवहासात्पुष्पे गुरुत्वपरिमाणादेरपि ह्रासः स्यादित्याशङक्याह-अदृष्टेति / अदृष्ट