________________ सटोकातदीपिकायाम 164 सर्वगतत्वे प्रमाणाभावात् अहमिहैवेत्यनुभवात् परिछिन्न एव कर्ता भोक्ता। अकतरात्मनः स्वाभाविकपरिच्छेदे घटादिवदनित्यत्वप्रसङ्गन मुक्तयनुपपत्तेः। अन्तःकरणतादात्म्यात्सर्वगतोऽपि दृगात्मा परिछिन्न इत्यहमर्थो द्विरूपः अन्तःकरणाभेदश्चात्मनो मृषैवेत्यहमर्थधर्मः कर्तृत्वादिरपि मृषा कल्पितधर्मस्वात्संप्रतिपन्नवदिति। आत्माणुत्वपूर्वपक्षः ____नन्वस्तु कर्ताऽमाऽणुः अहमिहैवेत्यनुभवात् / अनित्यत्वदोषाभावाच / न चैवं सुखादेरणुधर्मतया सर्वशरीरव्यापित्वानुपपत्तिः अणुगुणस्यापि शरीरव्याप्त्यविरोधात् / न च गुणस्य गुणिमात्रप्रदेशत्वम् / प्रदीपगुणे प्रभायां व्यभिचारात् / गन्धस्यापि स्वाश्रयं विनाऽन्यत्र गमनादिति चेन्न / न तावदन्यत्रोत्पन्नसुखादि देशान्तरं व्याप्नोति, पूर्वदेशे तदनुपलम्भप्रसङ्गात् / न च तत्रस्थमेव जलूकादिवत देशान्तरे व्याप्नोतीति वाच्यम् निरवयवस्य तद्वत् संकोचविकासायोगान् / परिणामिनि परिच्छेदानुभवस्य बाधकाभावात्तस्य निरुपाधिकः स इत्युपसंहरतितस्मादिति / कूटस्थात्मनि परिच्छेदाद्यवभासस्तु विपरीत इत्याह-अक तुरात्मन इति अनात्मतादात्म्यापन्नस्यैवाहमर्थत्वप्रतिपादनफलमाह-अन्तः करणेति / कल्पितधर्मत्वादिति / कल्पितस्य धर्मस्वात् स्वप्न कल्पितराजभोगादिवदित्यर्थः। अहमर्थानुभवगोचरे वस्तुतोऽपरिच्छेदाभावान्न द्वैरूप्यमिति तांत्रिकश्चोदयति-नन्वस्त्विति / सुखाद्याश्रयस्याणुत्वे सर्वाङ्गीणसुखोपलब्ध्यनुपपत्तिरित्युक्तमपवदति-- नचैवमिति / ननु सुखादिः स्वोपादानातिरिक्तदेशसंसगी न भवति गुणत्वाद्र्पादिवदित्यत आह-न चेति / प्रभाया द्रव्यत्वान्न व्यभिचार इत्याशंक्य प्रसिद्धगुणे व्यभिचारमाह-गन्धस्येति / आत्मनोऽणुत्वे तस्य तद्गतधर्मस्य चाप्रत्यक्षत्वप्रसंगात् नैतदित्याह-नेति / किंच किं सुखादिकं गुणः, उत द्रव्यम् ? / आद्यऽपि किमुत्पन्नं सुखादि प्रदेशान्तरं क्रियया व्याप्नोति, उत तद्वयाप्यैवोत्पद्यते ? / आद्यं दूषयतिन तावदिति / पूर्व देशापरित्यागेनापि देशान्तरप्राप्तिदर्शनान्नोत्तदोष इत्याशक्य दृष्टांतवैषम्येण दूषयति-न च तत्रस्थमेवेति / अस्मिन्पक्ष गुणत्वमप्यनुपपन्नमित्याह