________________ प्रथमः परिच्छेदः हि भूयस्त्वमर्थस्य भवति नाल्पत्वमपि प्रागेवोपचरितार्थत्वम्". इति / अभ्यासस्य तात्पर्यलिङ्गत्वात् / अनिगमने वा पारलौकिकभोगोऽपि न स्यात् / न च सर्वगतस्यात्मनस्तत्तत्प्रदेशे कर्मवशाछरीरारम्भे तत्र मनसो वृत्तिलाभात्पारलौकिकसुखाद्युत्पत्तिरिति वाच्यम् / अदृष्टस्य स्वसमवायिप्रदेशे कार्यजनकत्वात् / स्वसमवायिगतगुणारम्भकाणां तथात्वनियमात् / अन्यथा घटादेरधःप्रदेशसमवेताग्निसंयोगादग्रदेशेऽपि लौहित्यप्रसङ्गात् / अंगुल्यग्रात्मप्रदेशावच्छिन्नकण्टकसंयोगाच्छिरोदेशेऽपि दुःखप्रसङ्गाच / नचादृष्टस्य तथात्वे किं बाधकमिति वाच्यम् / दृष्टस्वभाव. भङ्गस्यादृष्टकल्पनस्य च बाधकत्वात् / शरोरानवच्छिन्न प्रदेशेऽपि ततः सुखाद्युत्पत्तिप्रसङ्गाच्च / शरीरावच्छिन्नानवच्छिन्नयोरनिर्वाचनीयभेदस्याप्यनङ्गीकारे तत्रैव जनयेन्नान्यत्रेति व्यवस्थाऽयोगात्। श्रयाऽऽत्मनो विभुत्वाशङ्कापरिहारः। नापि श्रुतितः सुखाद्याश्रयस्य सर्वगतत्वसिडिः / ब्रह्मत्वेनैव सुखाद्याश्रयस्य सर्वगतत्वप्रतिपादनात् / तस्मात् ज्ञानाद्याश्रयस्य त्पन्नकर्मभिरेवाभिनवशरीरादिपुरःसरो भोगो भविष्यतीति चेत् न / प्रदेशान्तरगतादृष्टेन प्रदेशान्तरे भोगायोगादित्याह-न च सर्वगतस्येति / नन्वपेक्षाबुद्धयादेः प्रदेशान्तरे द्वित्वाधारम्भकत्ववददृष्टस्यापि तथात्वं किं न स्यादित्यत आहस्वसमवायीति / न चोत्तरशब्दारम्भकपूर्वशब्दे नायं नियम इति वाच्यम् / उक्तनियमादेव तत्रापि निमित्तवायुसंयोगस्यैवारम्भकत्वसम्भवे पूर्वशब्दस्यापि कारणत्वकल्पनाऽयोगादिति भावः / उक्तनियमानङ्गीकारे बाधकमाह-अन्यथेति / तो क्तबाधकादग्निसंयोगादावेवायं नियमो नादृष्ट इत्याशङ्कयाह --न चेति / अतिप्रसङ्गबाधकश्च प्रकृतेपि तुल्य इत्याह-शरीरानवच्छिन्नेति / ननु शरीरावच्छिन्नप्रदेश एव सुखादिजनकत्वमदृष्टय स्वभाव इत्यत आह-शरीरावच्छिन्नति / "आत्मैवाधस्तादात्मोपरिष्टात्" "आकाशवत्सर्वगतः” इत्यादिश्रुतित एव दुखाद्याश्रयस्य विभुत्व मिति तृतीयं पक्षं दूषयति-नापीति आत्मैवेदं सर्वमित्यादिवाक्यशेषपर्यालोचनया ब्रह्मभावेनैव सर्वगतत्वाभिधानानात्र पराभिमतात्मनो विभुत्व सिद्धिरित्याह-ब्रह्मत्वेनेति / दुःखादि . 25