________________ 192 सटीकाद्वैतदीपिकायाम् कत्ववत् सर्वत्र कार्यजनकत्वात् / नच परमाणुक्रियाया अदृष्टवदात्मसंयोगासमवायिकारणकत्वादात्मनो विभुत्वमिति वाच्यम् / कार्यस्यासमवायिकारणकत्वाभावात् / अस्तु वा तत्रान्यदसमवायिकारणम् / ननु सर्वशरीरव्यापिसुखाद्युपलम्भादात्मनि सर्वशरीर. व्यापिनि सति तस्य मध्यमपरिमाणनिराकरणाद्विभुत्वसिद्धि. रिति चेत् / आत्मनोऽन्तःकरणतादात्म्यविशिष्टस्यैव सुखाद्याश्र. यत्वेन मध्यमपरिमाणत्वात् / प्रथमहेतोभट्टमतेऽन्धकारे व्यभिचारात् / अस्मन्मते श्रोत्रे व्यभिचाराच्च / दुःखाद्याश्रयविभुत्वानुमानस्य तदुत्क्रान्त्यादिश्रुतिविरोधश्च / निष्क्रमणश्रु तेरौपचारिकत्वखण्डनम् / नचेदमौपचारिकं गमनादिवचनं तत्र तत्र पौनःपुन्येन श्रयमाणस्योपचरितार्थत्वायोगात् / तथा चाहुन्यायबिद:-"अभ्यासे क्रियानुपपत्तिरित्याशङ्कयाह--न चेति-समवायस्यालीकत्वेन तदधीनासमवायि. कारणस्यापि तथात्वमित्यभिप्रेत्याह-कार्यस्येति / कार्यस्यासमवायिकारणजन्यत्वनियमेऽपि परमाणुगतपरिमाणादिकमेव किश्चित्तदसमवायिकारणमस्तु / अस्मत्प्र. वृत्त्यनुपयोगिनस्तन्निर्णयस्याभावेऽपि न काचित्क्षतिरित्यभिप्रेत्याह-अस्तुवेति / सुखाद्याश्रयस्य परिशेषाद्विभुत्वसिद्धिरिति-शङ्कते-नन्विति / आत्मनोऽनित्यत्वे कृतहान्यादिप्रसंगान शरीरपरिमाणत्वमपीत्याह-तस्येति / स्वतो मध्यमपरिमाणस्य दुःखादिपरिणाम्यन्तःकरणस्यानित्यत्वेऽपि तदुपाधिकमध्यमपरिमाणदुःखाद्याश्रयस्यात्मनो नानित्यत्वादिप्रसङ्ग इत्यभिप्रेत्याह-आत्मन इति / भट्टमते तमसः स्पर्शशन्यद्रव्यत्वेऽपि मूर्त्तत्वात्तत्र तदीयहेतोव्यभिचार इतयाह-प्रथमेति / श्रोत्रेन्द्रियमपञ्चीकृताकाशकार्यमिति मते तत्र व्यभिचार इत्याह-अस्मन्मत इति / 'एष आत्मा निष्कामति चक्षुष्टो वा मूनों वाऽन्येभ्यो वा” इत्यादि क्रियाभिधा. यिश्रतिविरोधश्चेत्याह-दुःखेति / निर्गमनश्रुतेरन्यपरत्वान्न तद्विरोध इत्याशङ्कयाह-नचेति / प्रागेवेति-दूरत एवेत्यर्थः / उपपत्तिरपि तत्र तात्पर्यलिङ्गमस्तीत्याह--अनिगंमने वेति- ननु कतु विभुत्वान्मेरुपृष्ठादावपि सतस्तत्तच्छरीरोपहितात्मप्रदेशो