SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ प्रथमः परिच्छेदः 161 विषयत्वेनैव नियामक इति वाच्यम् / मानोरथिकसुखादौ नियामकविषयाभावात् / शरीराद्यपाधिकृतात्मप्रदेशाभावाच्च तत्रैव सुखादिरिति वक्तमशक्यम्। उपाधिकृतस्य तज्ज्ञाप्यस्य वा प्रदेशस्यात्मन्ययोगादित्युक्तत्वात् / विभ्वात्मवादे तस्य सर्वशरीरसंयोगित्वेन पुत्रादिशरीरस्य स्वादृष्टाकृष्टत्वाच्च तदवच्छेदनापि स्रक्चंदनादिसंयोगे भोगप्रसङ्गात् / कस्यापि स्वादृष्टमात्रजन्यः स्वाभावात् / परकायं प्रविष्टस्य पिशाचादेश्च शरीरान्तरे भोगाभावप्रसङ्गाच्च / स्वादृष्टजन्यस्यैव भोगहेतुत्वे आत्ममनसोस्तव मते भोगाजनकत्वप्रसङ्गाचच / उक्तहेतुद्वयस्याऽप्रयोजकत्वप्रदर्शनम् / अप्रयोजकं च सुखाद्याश्रयस्य विभुत्वानुमानम् / न च सर्वत्रादृष्टकार्यदर्शनाददृष्टस्य स्वायसंयोगद्वारेणैवान्यसम्बन्धाचदाश्रयस्यैव सुखाश्रयत्वात्सुखाश्रयोऽपि सर्वगत इति वाच्यम् / स्वाश्रयसम्बन्धं विनापि स्वरूपसंबंधादेवादृष्टस्य शब्दादिजन निष्प्रदेशे निमित्तसंयोगतदधीनप्रदेशभेदयोरसंभवान्न ततः सुखादिव्यवस्थेत्याह-- शरीरेति / औपाधिकप्रदेशभेदाङ्गीकारेऽप्यतिप्रसङ्गस्तदवस्थ इत्याह--विभ्वात्मेति / सर्वशरीरसंयोगित्वेनेत्यस्य तदवच्छेदेनापीत्यनेन सम्बन्धः / ननु स्वादृष्टाकृष्टशरीरमेव स्वसखे निमित्तं न सर्वमित्याशङ्कय तथाप्यतिप्रसङ्ग इत्यभिप्रेत्याह पुत्रादीति-ननु स्वादृष्टमात्रजन्यत्वेन नियामकत्वमिति चेत्, न / स्वशरीरस्यापि स्वभार्याद्यदृष्टादिजन्यत्वेनासंभवादित्याह-कस्यापीति / स्वशरीरस्य स्वादृष्टमात्रजन्यत्वमङ्गीकृत्यापि दोषमाह--परकायमिति-तददृष्टाजन्यस्य तद्भोगाजनकत्वे नित्यस्य तज्जनकता न स्यादित्याह--स्वादृष्टेति / विपक्षे बाधकतर्काभावादप्युक्तहेतुद्वयमप्रयोजकमित्याह-अप्रयोजकं चेति / ___ अदृष्टाश्रयस्याविभुत्वे तस्य देशान्तरवर्तिसूर्यगत्यादिकार्यजनकतानुपपत्तिर्षाधिकेत्याशड्याह-न च सर्वत्रेति-परमते शब्दाश्रयाकाशेनाऽऽत्मनः संयोगाभावेऽपि तद्गतादृष्टस्य स्वरूपसम्बन्धेनैव शब्दजनकत्ववत् सूर्यात्मसंयोगं विनापि तद्गतिजनकत्वमुपपद्यत इत्याह-स्वाश्रयेति-आत्मनो विभुत्वाभावे सगोऽऽद्यकालीनाणु
SR No.032852
Book TitleAdwait Dipika Part 01
Original Sutra AuthorN/A
AuthorS Subramanya Shastri
PublisherSampurnand Sanskrit Vishvavidyalaya
Publication Year1982
Total Pages298
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy