________________ 190 सटीकाद्वैतदीपिकायाम् प्रत्युक्तम / तत्र भेदप्रत्ययं विनापि धर्मिणश्चन्द्रस्य प्रमितत्वात् / अनुमानस्य युक्त्युपोदलितत्वाच्च सुखाश्रयस्य विभुत्तो सर्गत्र सुखाद्युपलम्भप्रसङ्गाच्च निष्प्रदेशात्मधर्मत्वात् / विभुगुणानां कारणावच्छे रेनोत्पत्तिनिरसनम् / न च विभुकार्यत्वात्सुखादिकं स्वासमवाय्यवच्छिन्न देशगतमिति वाच्यम्। सर्वशरीरव्यापिसुखानुपलम्भप्रसङ्गात्, सर्वत्र वोपलम्भप्रसङ्गात् / न स्याच्च भेर्याद्यवछिन्नाकाशप्रदेशनिपन्ननिनादस्य ब्रह्मायुषाऽप्युपलम्भः / ननु निमित्तदेशानुसारिणो विभुगुणाः / शब्दे च निमित्तं वायुः, सुखादौ च तत्तद्विषय इति नोक्तदोष इति चेन्न / तथा सति मनःशरीरयोरपि निमित्तत्वेन तद्देशत्वापातात् / न चासाधारणनिमित्तं नियामकं चन्दनादेरपि स्वपरसुखसाधारणत्वात् ज्ञानादिसाधारणत्वाच्च / न च सुखादौ विषयो विनाऽप्युपलम्भः स्यादित्यादितर्कश्चन्द्रद्वित्वप्रत्यक्षबाधक इत्याह-अनुमानस्येति / प्रकृतेऽनुमानमेव युक्तिबाधितमित्याह-सुखेति / / ननु शब्दवदेव सुखादेरसमवाय्यवच्छेदेनोत्पत्तक्तदोष इत्यत आह--न च विभिवति। मन लोऽणुत्वमते दोषमाह--सर्वशरीरेति / तद्विभुत्वे दोषमाह--सर्वत्रेति / किं चास्मिन्मक्षे भेर्याकाशसंयोगावच्छेदेनोत्पन्नाद्यशब्दाद्यसमवायिकारणकद्वितीयादि. शब्दानामपि तत्रैवोत्पत्तेः श्रोत्रासमवायात्तदनुपलम्भापात इत्याह-न स्याच्चेति / अस्तु तर्हि निमित्तसंयोगावच्छेदेन विभुविशेषगुणोत्पत्तिः / तथा च न पूर्वोक्तदोष इति शङ्कते - ननु निमित्तेति / विषयस्य संयोगद्वारा सुखादिनियामकत्वं निमित्तत्त्वेन, उतासाधारणनिमिर त्वेन, किं वा विषयत्वेन ?, आद्ये दोषमाह-न तथा सतीति / मनःसम्बन्धप्रयुक्तया सुखादेरणुदेशत्वं, शरीरसम्बन्धप्रयुक्तया तु शरीरव्यापित्वं स्यादित्यर्थः। द्वितीयं दूषयति--न चेति / चन्दनादेरसाधारणत्वं किं नियतपुरुषसुखजनकत्वमुत सुख मात्रजनकत्वम् ?, उभयथाऽप्यसिद्धमित्याह--चन्दनादेरिति / विषयाभावेऽपि तज्ज्ञानमात्रात्सुखदर्शनात् तृतीयोऽप्ययुक्त इत्याह-न च सुखादाविति /