________________ प्रथमः परिच्छेद: 186 ग्राह केन्द्रियस्यैव परिमाणग्राहकत्वनियमात् / तस्मात्केवलात्मनः प्रत्यक्षत्वायोगादन्तः करणतादात्म्यविशिष्ट एव परिच्छिन्नोऽनुभूगते। किञ्च सुखादिसमवायितावच्छेदकरूपेण तस्याधिकपरिमाणे प्रमाणाभावान्नायमारोपितदेहपरिमाणगोचरोऽनुभवः / प्रत्याक्षस्य तावदहमिहैवास्मीति तत्परिच्छेदविषयत्वात् / न च सुखा द्याश्रयो विभुः सर्वदास्पर्शशून्याद्रव्यत्वात् नित्येन्द्रियग्राह्यगुणाश्रयत्वादागगनवदिति वाच्यम।धर्मिग्राहकप्रत्यक्षविरोधेनानुमानस्याभासत्वात् / न च प्रत्यक्षं भ्रमः, सुखाद्याश्रयपरिच्छेदानुभवस्याबाधात् / न चैतदेवानुमानं बाधकमुपजीव्यविरोधेनास्यैवाप्रमाणत्वात् / अन्योन्याश्रयाच्च / ___अत एव चन्द्रकत्वानुमानेन तत्तद्भेदप्रत्यक्षबाधवदात्मविभुत्वानुमानेन तत्परिच्छेदविषयप्रत्क्षस्यापि बाध इति तत्र तद्बाधकाभावात् / तथा च तत्तादात्म्यादेव सिद्धान्त्यभिमतात्मनि परिच्छेदावभास इत्यभिप्रेत्याह-किं चेति / किं जडात्मनो विभुत्वे प्रत्यक्षं प्रमाणमुतानुमानं, किं वाऽऽगमः ? नाद्य इत्याह प्रत्यक्षस्येति / द्वितीयं निराकरोति-न चेति / घटे तद्गतगुणादौ च व्यभिचारवारणाय स्पर्शशून्यद्रव्यत्वादित्युक्तम् / एवमप्युत्पन्नं द्रव्यं क्षणमगुणमिति मते प्रथमक्षणे घटे व्यभिचारः स्यात्तन्निरासाय सर्वदेति / भट्टमतानुसारिणामिदमनुमानमिति न मनसि व्यभिचारः। वैशेषिका. नुमानं नित्येन्द्रि येत्यादि / अनुमानद्वयेऽपि साधारणं दोषमाह-धर्मिग्राहकेति / न चाहमनुभवमात्रस्य धर्मिग्राहकत्वात् तस्य च परिच्छेदाविषयत्वान्न तद्विरोध इति वाच्यम् / अहमनुभवस्याऽऽत्मपरिच्छेदविषयत्वनियमाभावे कदाचिद्गृहान्त:स्थस्य स्वस्य बहिःसत्त्वसंशयादिप्रसङ्गादिति भावः। तहमनुभवः परिच्छेदांशे भ्रम इत्याशक्य किं प्रत्यक्षबाधाद्ममत्वम्, उतानुमानबाधात् ?, न सर्वथापीत्याह-न च प्रत्यक्षमिति / किं च प्रत्यक्षस्य भ्रमत्वे सिद्ध तदविरोधेनानुमानोदयः। तदुदये च विषयापहारात् प्रत्यक्षस्य भ्रमत्वसिद्धिरितीतरेतराश्रयःश्च स्यादित्याहअन्योन्येति / अनुमानस्यापि कुत्रचित्प्रत्यक्षबाधकत्वदर्शनादत्रापि तथा कि न स्यादित्यतआह-अत एवेति / अतः शब्दार्थमाह-तत्रेति / चन्द्रद्वित्वस्य स्वाभाविकत्वे दोषं