________________ 186 सटीकाद्वैतदीपिकायाम् अनुभवविषयाऽऽत्मनोतिरूपत्वे मिथ्यात्वशङ्कानिरासः / न च चिवचितोः संवलनं तादात्म्यं वास्तवं संभवतीति मिथ्यात्मविषयोऽहमनुभवः / न चैवं केवलस्यात्मनोऽहमनुभवे प्रकाशाभावादनात्मत्वप्रसङ्गः / केवलचिदात्मन एवान्तःकरणाधिष्ठानस्य तदात्मतयाऽहमनुभवे स्फुरणात / दुःखित्वपरमप्रेमास्पदत्वे अपि वस्तुतः परस्परासङ्कीर्णं स्वस्वाश्रयं व्यवस्थापयतः सुखसमवायित्वनात्मनः परमप्रेमास्पदत्वे दुःखसमवायित्वेन परमद्वेषगोचरत्वस्यापि प्रसङ्गात। त्वदुक्त सामान्य. विशेषन्यायस्य तत्रापि संभवात्। लाघवेन सुखत्वस्यैव परमप्रेमगोचरत्वप्रयोजकत्वात् / सुखित्वानुभवस्यान्यथासिद्धे. वक्ष्यमाणत्वात्। अस्त्वानन्द एवात्मा दुःखधर्मीति चेन्न / आनन्दस्य दुःखविरोधात्। जन्ययोरपि तयोः विरोधस्य लाघवेन सुखदुःखस्वरूपमात्रप्रयुक्तत्वान् नित्यदुःखाभावेन दुःखमात्रस्यैव सुखविरोधित्त्ववत्सुखमात्रस्यैव दुःखविरोधाच्च / अन्यथा कादाचित्काभावस्य प्रतियोगिविरोधित्वं सम्वलनमित्यस्य व्याख्या तादात्म्यम् / यदुक्तमहमनुभवगोचरस्यैवात्मत्वात्केवलस्य तद्गोचरत्वेऽनात्मत्वापातात् इति तद्रूषयति-न चैवमिति / दुःखि. त्वादिविरुद्धधर्मभेदोऽपि धर्मिभेदक इत्याह-दुःखित्वेति / यदप्युक्तं दुःखिनोऽपि प्रेमगोचरत्वमविरुद्धं तत्प्रयोजकसत्त्वादिति तदतिप्रसङ्गेन दूषयति-सुखसमवायित्वेनेति / ननु व्याप्त्यभावेन नानयोरापाद्यापादकभाव इत्याशक्य त्वदुक्त. न्यायस्य व्याप्येन सह व्याप्तत्वात्तेनैव तदापाद्यत इत्यभिप्रेत्याह-त्वदुक्तति / गौरवादपि स्वदुक्तविशेषप्रयोजकमयुक्तमित्यभिप्रत्याह-लाघवेनेति / यदुक्तं प्रामाणिक गौरवमदोषायेति तत्राह-सुखित्वानुभवस्येति / सुखरूपस्यापि आत्मनो दुःखित्वमपीत्युक्तमनूद्यापवदति-अस्त्वानन्द एवेत्यादिना / जन्ययोरेव सुखदुःखयोर्विरोध इत्युक्तं गौरवेण दूषयति-जन्ययोरपीति / दुःखस्य यथा सुखविरोधित्वं दुःखत्वेनैव, एवं सुखस्यापि दुःखविरोधित्वं सुखत्वेनैवेत्याह- नित्येति / सुखत्वाविशेषेऽपि जन्याजन्यविशेषेण विरोधाविरोधाभिधानेऽतिप्रसङ्गमाहअन्यथेति / तर्हि संवलितेऽपि सुखत्वानपायाद्दुःखं न स्यादित्युक्तं दूषयति-न चैव