________________ प्रथमः परिच्छेदः 185 अय आत्मा कर्ताऽऽत्मत्वात् व्यतिरेकेण घटवत्। अत एव भोक्ता च / ज्योतिष्टोमा दश्रुतिश्चात्मनः कर्तृत्वे मानम / “परं ज्योतिरूपसंपद्य स्वेन रूपेणाभिनिष्पद्यते स उत्तमः पुरुषः स तत्र पर्येति जक्षत् क्रोउन् रममाण" इति स्वरूपाविर्भावलक्षणमुक्तावपि कर्तृत्वश्रवणात् तच वेदान्तसिद्धात्मनिरूपणेन समाधानतया परमार्थ एवेति / अत्रोच्यते-आत्मा तावत् ज्ञानरूपः। ज्ञानं च न स्व. विषयमिति निरूपितम् / अहमनुभवश्च मामहं जानामीत्यहमर्थविषयोऽनुभूयते / अतो न केवलात्मविषयः। न चेदं विषयत्वं तटस्थस्यैवान्तःकरणस्येति वाच्यम् / चैतन्यासंवलितस्याहमनुभवागोचरत्वात् / अहमनुभवगोचरधर्मस्य सुखादेः कथमप्यनात्मधर्मत्वायोगाच्च / अत एव न देहादिगोचरत्वमपि तस्य / श्रुतिश्चेति / क्रियाफलस्य कन्वयार्थे आत्मनेपदस्मरणादिति भावः। अविद्याऽभावदशायामपि कर्तृत्वश्रवणात्तदात्मनः : पारमार्थिकमित्याह-परं ज्योतिरिति / ममाऽऽत्मा ममान्तःकरणमित्यनुभवद्वयस्यापि विनिगमकाभावेन यथार्थवादहमर्थे द्वैरूप्यमनुभवसिद्धं युक्तितोऽपि साधयितुमुपक्रमते-अत्रोच्यत इति / तत्र तावच्चैतन्यविषयत्वाविषयत्वलक्षणविरुद्धधर्माध्यासाद्भेदो वक्तव्य इत्यभिप्रेत्योक्तं स्मारयति-आत्मा तावदिति / तह्यविषय एवात्माऽहमर्थ इत्यत आह-अहमनुभवश्चेति / अस्तु तर्हि जडान्तःकरणस्यात्मतादात्म्यरहितस्यैवाहमनुभवविषयत्वमिति वदन्तं साङ्ख्यं प्रत्याह-न चेदमिति / जडमात्रस्य घटादिवदहमनुभवविषयत्वायोगादिति हेतुमाइ-चैतन्येति / किं चान्तःकरणस्यैवाहमनुभवगोचरत्वे दुःखादेरध्यासेनाप्यात्मधर्मत्वं न स्यात् / न च तद्यज्यते / मुक्त्यन्वयिनि तस्मिन् बन्धस्यावश्यकत्वादित्याह--अहमनुभवेति / कथमपीति / अध्यासेनाप्यात्मधर्मत्वाभावायोगादित्यथः / उक्तहेतोरेवाहमनुभवस्य देहादिमात्रगोचरत्वमप्ययुक्तमित्याह-अत एवेति / ___ अहमनुभवगोचरस्य द्विरूपत्वेऽपि कथं मिथ्यात्वमित्याशक्याह-न चेति /