________________ 184 सटीकाद्वैतदीपिकायाम् नन्वहमनुभवगोचरः परिच्छिन्नोऽनुभूतये। इहैवास्मीत्यनुभवात्। न चेदं परिच्छिन्नत्वं केवलात्मनिष्ठम् / तस्य विभुत्वात् / न च देह एव परिच्छिन्नोऽनुभूयते नत्वात्मेति वाच्यम् / अहमिहैवास्मि जानान इति परिच्छिन्नत्वस्य ज्ञानसामानाधिकरण्यानुभवात् / तस्मादन्तःकरणतादात्म्यविशिष्ट आत्माऽहमनुभवगोचा इति चेन्न। देहपरिमाणस्यात्मन्यारोपितस्य स्फटिक इव लौहितस्यानुभवात् / आत्मप्रादेशिकत्वानुभवस्य सिद्धान्तेऽपि भ्रमत्वात् / अन्यथाऽन्तःकरणस्यानियतपरिमाणत्वेन तदवच्छिन्न आत्माऽपि तथैवेति व्यासङ्गा, सर्वाङ्गीणसुखानुभवश्च न स्याताम् / अनियतपरिमाणत्वे वा तदाश्रय भेदस्याप्यावश्यकतया तदवच्छिन्न त्मनोऽप्येकशरीरे भेदप्रसङ्गात् / विशिष्टस्यात्मनः कर्तृत्वे भोक्तृत्वे वा मुक्ति दशायामप्यस्यावस्थानप्रसङ्गात् / बद्धस्यैव मुक्त्याश्रयत्वात् / तस्मान्मोक्ष्यमाणः केवलात्मैव कर्ता भोक्तेति न तस्य मृषाधर्मत्वम् / केवलस्या मनः प्रभातम्वनिरसनम् / . अत एव श्रवणादिकर्तृत्वमपि तस्यैवेतिसंगच्छते / मुक्तया इति चोदयति ।-नन्वहमनुभवेति / परिच्छेदानुभवस्य देहविषयत्वेन तस्यात्मभेद इष्ट इत्यत आह-न च देह इति / अपरिच्छिन्नेऽप्यहमर्थ परिच्छेदानुभवस्य भ्रान्तिरूपस्य संभवान्न तद्वैरूप्यमित्याऽऽह पूर्ववादी-न देहपरिमाणस्येति / ननु परिच्छेदानुभवस्य प्रमात्वे संभवति भ्रान्तित्वमयुक्तमित्याशङ्कयाऽऽह-आत्मेति / अन्तःकरणतादात्म्यापन एवात्माऽहमर्थ इति पक्षे किमन्तःकरण नंतपरिमाण मणु परिमाणमनियतपरिमाणं वा ? आद्ययोर्दोषमाह-अन्यथेति / तृतीये परिमाणभेदेनान्तःकरणभेदस्यावश्यकतया तदवच्छिन्नात्मनोऽपि भेदापातात् कृतहानादिप्रसङ्ग इत्याह-अनियतेति / कर्तृत्वादिबन्धस्य विशिष्टधर्मत्वे मुक्तिरपि तस्यैवेत्यद्वैतहानिरित्याह-विशिष्टस्येति / केवलस्यात्मनो मुक्तयन्वयित्वात् स एव कतृत्वादिबन्धाश्रयः / तथा च न बन्धस्य मिथ्यावस्तुधर्मत्वमित्युपसहरति-तस्मादिति / केवलस्यात्मन एव कर्तृत्वात् प्रमातृत्वमपि तत्यैवेत्याह-अत एवेति / तर्कितेऽथै प्रमाणान्तरमप्याह / -मुक्त्याश्रय इति / शबलात्मनि सिद्धसाधनतानिवृत्तये मुक्त्याश्रय इत्युक्तम् / अत एव-आत्मत्वादेवेत्यर्थः। ज्योतिष्टोमादि