________________ प्रथमः परिच्छेदः 187 दृष्टमित्यत्यानाभारस्य तदभावप्रसङ्गात् / न चैवमवच्छिन्नात्मनि दुःखं न स्यादिति वाच्यं; विरोधीहि स्वप्रतियोगिनो धर्मिसत्ता. समानसत्तामपवदति नतु तस्य विद्यमानत्वमानं अरजतेऽपि शुत्तथादौ रजततादात्म्यानुभवात् अवच्छिन्नात्मनि दुःखादेश्व तादृपत्वात्। दुःखाधिष्ठानस्यान्तः करणतादात्म्यकल्पनम् / नन्वेवमपि केवले आत्मनि दुःखमारोप्यतां किं तदधिष्ठानस्यान्तःकरणतादात्म्यकल्पनयेति चेन्न। आत्मन्यनिष्टदर्शना. नन्तरं हि दुःखमनुभूयत इति तत्र हेतुः। न चानिष्टदर्शनं ज्ञानरूप आत्मनि संभवति / न वा केवलजडे / ततोऽन्तःकरणस्य चित्तादात्म्यापनस्य धर्माणां ज्ञानेच्छासुखदुःखादीनामेव कार्यकारणभावादवच्छिन्नात्मन्येव दुःखानुभवो न त्वन्तःकरणतादात्म्यरहिते। तथा चोपपत्तिसहितसमकालिकविषयदुःखिप्रेमास्पदत्वानुभवो दुःखाद्याश्रयाहमर्थस्योभयरूपत्वं व्यवस्थापयति / मिति / किं विरुद्धयोर्वास्तवः संसर्गोऽनुपपन्नः, किं वा कल्पितः ? आद्यमङ्गीकरोति ----विरोधो हीति / द्वितीये नानुपपत्तिरित्याह-न त्विति / अनिर्वचनीय. वादे प्रत्यक्षस्य शुक्तिरजततादात्म्यस्य विद्यमानताया वक्ष्यमाणत्वादिति भावः। सुखात्मनि दुःखं चेदारोपितं तर्हि केवलात्मनि तदारोपसंभवान्न दुःखादेः शबलात्मधर्मत्वमिति चोदयति-नन्वेवमपीति / आरोपितस्यापि दुःखस्य स्वसमानाधिकरणानिष्टदर्शनजन्यत्वात्तस्य च केवलात्मन्ययोगेन वृत्तिमदन्तः करणतादात्म्यापन्नात्मधर्मत्वात्तत्समानाधिकरणदुःखादिकमपि तथेत्याह - न आत्मनीति / युक्तिमात्रस्याप्रमाणत्वात्कथं द्वैरूप्यसिद्धिरित्याशक्य तदुपोद्वलितदुःखित्वाद्यनुभव एव तत्साधक इत्याह-तथाचेति / एवमपरिच्छिन्नऽहमथे परिच्छेदानुभवोऽपि द्वैरूप्ये मानमित्याह-एवं दुःखेति / यदुक्तं स्फटिक इव लौहित्यस्यापरिच्छन्नात्मन्येव परिच्छेदानुभव इति तन्निराकरोति-न चेति / अस्यान्यदेतदिति वाच्यमित्युत्तरेण सम्बन्धः। ननु द्रव्यप्रत्यक्ष