________________ 181 प्रथमः परिच्छेदः घटवदनात्मा स च ज्ञानरूपोऽपि कर्ता भोक्ताऽभ्युपगन्तव्यः / अहं करोमि भुञ्ज इति तयोरहमनुभवप्रकाशाश्रयत्वानुभवात् / अन्भवे भ्रमनिरासः ! न चायमनुभवो भ्रमः न तावदात्मनि बाधकानुभवादस्य भ्रमत्वम् / तदभावात् / नहि नाहं करोमि न मुझे किं तु मदन्य एवास्मिच्छरीरे तद्धि इति कश्चिदनुभवति / ननु मिथ्यात्मधर्मत्वात, कर्तृत्वादिरपि मिथ्या। अहमनुभवेऽनात्मता. दात्म्यविशिष्टानुभवस्यैवानुभवादिति चेत् तर्हि केवलानुभवरूप आत्मा न स्यात् / अहमनुभवे तस्याप्रकाशमानत्वात् / अहमनुभवगोचरस्य द्वैरूप्ये प्रमाणाभावाच। न च परमप्रेमगोचरत्वदुःखित्वादेरहमनुभवगोचरे दर्शनात्तस्य दैरूप्यमिति वाच्यम् / नह्यनेकधर्मानुभवो धर्मिणं भिनत्ति / अतिप्रसङ्गात् / न चैतयोविरोधोऽस्ति / आत्मा यात्मत्वात् परमप्रेमास्पदं दुःखी स्थूलोह मित्याद्यनुभववदेतस्य भ्रमत्वान्न अतिविरोधित्व मित्याह-न चेति / किमेतस्य प्रत्यक्षबाधाद् भ्रमत्वमुत युक्तिबाधात् / नाद्य इत्याह-न तावदिति / तद्विध इति / कर्ता भोक्ता चेत्यर्थः। द्वितीयं शङ्कते-नन्विति / मिथ्येति / मिथ्याभूतो यः शबलात्मा तद्धमत्वादित्यर्थः / शवलस्यैवाहमनुभवगोचरत्वे केवलस्यात्मत्वं न स्यात् / अहमनुभवगोचरस्यैवात्मत्वादित्याह- तहीति / अनात्मतादात्म्यस्याहमनुभवगोचरत्वमप्यसिद्धमित्याह- अहमनुभवेति / नन्वह. मनुभवगोचरे प्रतीयमानदुःखित्वादिभेदानुपपत्तिरेव धर्मिभेदे मानमित्याशङ्कयाऽऽह-न च परमेति / किं धर्मिभेदमन्तरेण धर्ममात्रभेदोऽनुपपन्नः, उत विरुद्धधर्मभेदः / नाद्यः / रूपरसाधनेकधर्म अत्त्वेऽपि धर्मिणो भेदादर्शनादित्याहन ह्यनेकेति / द्वितीयस्त्व सिद्ध इत्याह-न चैतयोरिति / परस्मिन्नात्मन्युभयोरपि प्रयोजकप्रदर्शनेनाविरोधमुपपादयति-आत्मा हीति / धम्य भेदस्यानुभूयमानत्वादाप न विधि इत्याह-यस्येति / यदुक्तमात्मत्वात्परमप्रेमास्पदमिति तदाक्षिपतिननु प्रेमेति / पुत्रादावपि परम्परासंबन्धेनात्मत्वमेव तत्प्रयोजक मित्या. शङ्कयातिप्रसङ्गन दूषयति-न च तत्रेति / शत्रौ द्वेषप्रयोजके सति कथं प्रेमेत्याशङ्कय दु:खित्वप्रेमास्पदत्ववदुभयप्रयोजकवशादुभयमपि स्यादित्याह-अनिष्टत्वे.