________________ 182 सटीकाद्वैतदीपिकायाम च / दुःखसमवायिकारणत्वात् / यस्याहमर्थस्य प्रेमा भूयासमिति तस्यैव सोऽहं दुःखीत्यनुभवात् / ननु प्रेमगोचरत्वं नात्मत्वप्रयुक्तम्, अनात्मन्यपि पुत्रादौ तदर्शनात् / न च तत्राप्यात्मसम्बन्धित्वकृतं तदित्यात्मत्वमेव प्रयोजकमिति वाच्यम् / शत्रावपि प्रसङ्गात् / अनिष्टत्वेन तस्य द्वेषगोचरत्वेऽप्यात्मीयत्वेन प्रेमापि स्यात् / आत्मीयेऽप्युपेक्षणीये तदभावाच। अस्तु तर्हि सुखविशिष्टत्वमेव ता.योजकमिति चेत् तहि सुखदुःखयोर्विरोधात्तद्धर्मिभेदः स्यात् / न चैकस्मिन्नपि तयोः कालभेदेनाविरोध इति वाच्यम् / दुःखकाले अात्मनि प्रेमाभावप्रसङ्गात् / अस्ति च तदापि स इति चेन्न / सुखसमवायित्वं ह्यात्मनः प्रेमगोचरत्वे प्रयोजकम् / तडीने तददर्शनात् / तदाश्रये च दर्शनात् / तच दुःखाश्रयेऽपि न होयते / तस्यैव सुखसमवा. यिकारणत्वात् / पुत्रादावप्यात्मोपाधिप्रेमगोचरे स्वसमवेतसुख. नेति / अनिष्टत्वं प्रेमप्रतिबन्धकमित्याशङ्कयोपेक्षणीये प्रतिबन्धकाभावात् प्रेमा स्यादित्याह-आत्मीयेऽपीति / आत्मत्वस्याप्रयोजकत्वेऽप्यन्यदेव प्रयोजकमिति शङ्कते-अस्तु तहीति / सुखित्वाद्यनुभवे आत्मत्वस्य प्रयोजकत्वनिषेधः / तथा सति विरुद्धधर्माध्यासाद्धर्मिभेदः स्यादित्याह-तहाँति / रागद्वेष. वदेककालीनत्वविरोधेऽप्येकाधिकरणत्वमविरुद्धमित्याशङ्कयाह-न चैकस्मिन्निति / स प्रेमा। एवं सिद्धान्तिना प्रेमगोचरत्वप्रयोजक आक्षिप्ते पूर्ववादी स्वाभिमतं निरुपाधिप्रेमप्रयोजकं दर्शयति-न सुखसमवायित्वं हीति / तर्हि संतन्यमानदुःखदशायामात्मनि प्रेमा न स्यादित्याशङ्कय तदापि सुखसमयित्वयोग्यताऽस्तीत्याह ।तच्चेति / एवं निरुपाधिकप्रेमगोचरत्वे प्रयोजकमुक्त्वा सोपाधिकप्रेमगोचरत्वे प्रयोजकमाह-पुत्रादाविति / जनकत्वं निमित्तत्वं तर्हि प्रेमगोचरत्वमात्रे किं प्रयोजकमित्यत आह-सुखजनक वमिति / उक्तप्रयोजकस्य यत्सामान्यन्यायोपेततामाह-सामान्य इति / ननु विशेषप्रयोजकयोलघुशरीरयोः सतोगुरुशरीरे ते न ग्राह्य इत्यत आह-न च लाघवादिति / प्रमाणबाधितेऽथे लाघवानवतारादिति