________________ सटीकाद्वैतदीपिकायाम् दृष्टिः साक्षिभूता ज्ञप्तिस्तस्या इति वा, दृष्टेवृत्तेशेऽनुभवी द्रष्टा साक्षी तस्येति वाऽर्थः। ननु मुक्तावपि "विज्ञातारमरे केन विजान यातू" इति तेर्विज्ञातृत्वमस्ति न तु तदाऽन्तःकरणमस्तीति चेन्न / आत्मनो भूतपूर्वगत्या नदा ज्ञातृत्वनिर्देशात् / अन्यथा “यत्र त्वस्य सर्व मात्मैवाभूत्तत्केन कं पश्येत्' इति मुक्तौ दर्शनकर्तृत्वनिषेधविरोधात् / अत एव "पश्यंश्चक्षुः शृण्वञ्छ्रोत्रम्" इत्यादिश्रुतिजीवस्यागन्तुकज्ञानवादिनी शबलात्मविषया / अन्यथा “नान्तः प्रज्ञम्" इत्यादिश्रुतिविरोधाच / तस्मादवस्थात्रयसाक्ष्यनुभव एवात्मेति / सचायमात्मोदासीनो न कर्त्ता भोक्ता वा / असङ्गो ह्ययं पुरुषः / “असङ्गो न हि सज्जते दृष्ट्वैव पुण्यं च पापं चेत्यादिश्रुतेः। मात्मा कति मतपूर्वपक्षः। स्यादेतत् / अहमनुभवे प्रकाशमान आत्मा ततोऽन्यो सत्त्वात् दर्शनकर्तृत्वमस्तीति वदन्तमर्वाचीनं प्रत्याह --अन्यथेति / द्रष्टत्वादेः अतिबाधितत्वादेव क्वचित्तदनुवादश्रुतिरारोपितविषयेत्याह--अत एवेति / द्रष्टुत्वादेः स्वाभाविकत्वे श्रुत्यन्तरविरोधमाह-अन्यथेति / 'नान्तः प्रज्ञं न बहिः प्रशं नोभयतः प्रज्ञम्" इत्यादिना प्रपञ्चोपशमं शिवमद्वैतम् इत्यन्तेन निर्विशेष. स्वरूपमभिधाय स आत्मेति तस्यैवात्मत्व निर्देशादात्मनः स्वाभाविकद्रष्टुत्वादिक तद्विरुद्धमित्यर्थः आत्मनः संविदभेदमुपसंहरति - तस्मादिति / पूर्वमात्मनः प्रमातृत्वस्यारोपित्वोपपादनेन तदधीनकर्तृत्वादेरप्यारोपितत्वमर्थसिद्धमपि प्रतिवाद्यभिनिवेशोपशमनाय मुखतः साधयितुमुपक्रमते-स चायमिति / उदासीनपदार्थमाह - न कर्तेति / तत्र वक्ष्यमाणतर्कानुग्राह्यां श्रुति प्रमाणयति-असंग इति / दृष्ट्वैवेति / जाग्रति स्वप्ने च पुण्यपापक्रियाः तत्कारकाणि तत्फलानि च दृष्टवैवावस्थान्तरं प्राप्तेति न कृत्वा भुक्त्वा वेत्यथः / श्रुतेरन्यपरत्वमभिप्रेत्य यथाश्रतेऽनुपपत्तिमुद्भाव यति-स्यादेतदिति / आत्मनः कतृत्वादौ तावत्प्रत्यक्षं प्रमाणमाह- अहङ्करोमीति / हमनुभवे प्रकाशो यस्य स तथा। तदाश्रयत्वानुभवादित्यर्थः /