________________ प्रथमः परिच्छेदः 176 न चेश्वरदृष्टेविनाशमियं निषेधतीति वाच्यम् / “पश्यन्वै तन्न पश्यति" इति विशेषविज्ञाननिषेधस्य तस्मिन्नयोगात् / "तीर्णो हि तदा सञ्छोकान् हृदयस्य भवति" इति पूर्ववाक्यप्रमितस्य सुप्तौ शोकसंतरणस्य सर्वदाऽशोके परमेश्वरेऽयोगात् / न हि घातुघातेर्विपरिलोपो बिद्यत" इत्युत्तरवाक्यात्प्रतिपन्न घ्राणा. भिव्यक्तगन्धज्ञानस्य परस्मिन्नयोगाच्च / न हि गन्धज्ञानमात्रं घातेरथः। प्रकारान्तरेण गन्धमवगच्छति गन्धं जिघ्रतीत्यप्रयोगात्। आत्मनि द्रष्टुत्वाद्यनुपपत्ति शङ्का निराकरोति / न चैवं दृष्टः कथं द्रष्टुत्वमिति वाच्यम् दृग्रूपस्यात्मनो दृष्टयभिव्यञ्जकदर्शनाश्रयतया तत्तद्विषयावच्छिन्नतया तदवभासकतया वा द्रष्टुत्वाविरोधात् / द्रष्टुर्वृत्याश्रयस्यान्त:करणस्य या नास्तीत्येवमर्थे स्पष्टमवगम्यमानेऽप्रसक्तद्रष्ट्रनाशनिषेधपरत्वायोगादित्यभिप्रेत्याहन द्वितीय इति / अस्तु तर्हि दृष्टिविनाशनिषेध एव श्रुत्यर्थः / स च परमतेऽपीश्वरज्ञाने संभवतीति चेन्न / तथात्वे पूर्ववाक्यासामञ्जस्यप्रसङ्गादित्याह-न चेश्वरेति / संदंशन्यायेनेयं जीवविषयेत्यभिप्रत्य पूर्वोत्तरवाक्ये जीवविषये प्रदर्शयति-तीर्णो हीति / तदा सुषुप्तौ हृदयस्यान्तःकरणस्य सम्बन्धिनः शोकानतिक्रान्तो भवति / आत्मनि तदारोपनिमितस्यान्तःकरणस्य लीनत्वादितिश्रुत्यर्थः। ननु गन्धज्ञानमेव घ्रातिशब्दार्थो न तु घ्राणाभिव्यक्तत्वविशेषितम् / गौरवात्। ईश्वरज्ञानमपि गन्धविषयकमित्यत आह-न हीति / प्रकारान्तरेणेति / अनुमानादिना गन्धज्ञातरीत्यर्थः। ननु सिद्धान्तेऽपि समानाधिकरणषष्ठ्यनुपपत्तिः। दृष्टदर्शनाश्रयत्वरूपद्रष्ट्रत्वासंभवादिति चेन्न / रूपादिविषयवृत्त्यधिष्ठानतया कल्पितभेदेन फलरूप. दृष्टिसम्बन्धित्वेन वा दृपस्याप्यात्मनो द्रष्टुत्वोपपत्रेरित्याह- न चैवमिति / सिद्धान्ते व्यधिकरणषष्ठ्याऽर्थमप्युपपादयति-द्रष्टुवृत्त्याश्रयस्येति। नन्वास्मनोऽन्तःकरणबृत्त्यधिष्ठानतया द्रष्तृत्वमुक्तमनुपपन्नम् / तदभावदशायामपि द्रष्टुत्वश्रवणादिति चोदयति-ननु मुक्ताविति / परमतेऽपि तदा तदनुपपत्तेस्तुल्यत्वाद्विधुरे गृहस्थशब्दवत्तत्प्रयोग इत्याह-नात्मन इति / मुक्तावपि शरीरेन्द्रियादेः