________________ 178 सटीकादतदीपिकायाम इति वाच्यम् / अवयविनः पृथग्भावमात्रमेव हि विस्फुलिङ्गादेन तु तस्मिन् प्रागसत उत्पत्तिः। अनभिव्यक्तस्याभिव्यक्तिर्वा / अग्न्यवयवविस्फुलिङ्गानां प्रागपि तथैवानुभवात् // एवं जीवस्यापि ब्रह्मसमानस्वभावत्वं विभक्तत्वमात्रं च ततो ऽवगम्यते न तु द्विविधाऽप्युत्पत्तिः / ततो जीवोऽपि ज्ञानात्मकब्रह्माभिन्नः / अन्यथैकविज्ञानात्सर्व विज्ञानप्रतिज्ञा पोउयत / अग्निविस्फुलिङ्गादिदृष्टान्तश्रुतिश्च बाध्येत / तथा च पारमर्ष सूत्र ज्ञोऽतएवेति / "नहि द्रष्टुर्दष्टेविपरिलोपो विद्यते" इति श्रुतिरपि ज्ञानस्यात्मत्वे प्रमाणं व्यधिकरणषष्ठीतः समा. नाधिकरणषष्ठया अभ्यर्हितत्वात् / अन्यथा द्रष्टुर्या दृष्टिः तस्याः दृष्टः, यो द्रष्टा तस्य वा, विपरिलोपो निषिध्यते ? / नाद्यः / जीवाश्रितज्ञानस्य प्रत्यक्षविनाशानुभवात / न द्वितीयः। "यदै. तन्न पश्यति पश्यन्वै तन्न पश्यति न हि द्रष्टुर्दष्टेविपरिलोप' इति ज्ञानस्यैव विनाशनिषेधात् / विस्फुलिङ्गतयोपलम्भान्न तेषां सदसकार्यवादाभिमतोत्पत्तिरित्याह-अवयविन इति // "एवमेव अस्मादात्मन" इति दान्तिकश्रुत्यर्थमाह-एवं जीवस्यापीति / अस्मादात्मन इ त दार्शन्तिकश्रु त्यनिरूपणम् / / ब्रह्मसमानस्वभावत्वं सत्यज्ञानादिरूपत्वम् / अनादेजीवस्य ब्रह्मणो भेदेऽन्यज्ञानादन्यज्ञानानुपपत्तेरेकविज्ञानात्सर्व विज्ञानप्रतिज्ञा पीडयेत ततस्तदभेदो वक्तव्य इत्याह-ततो जीवोऽपीति / जीवस्य ब्रह्मस्वभावत्वाभावेऽग्निविस्फुलिङ्गदृष्टान्तानुपपत्तिरित्याह-अग्निविस्फुलिङ्गेति / आत्मनश्चिद्रपत्वे बादरायणसूत्रमपि प्रमाणयति-तथाचेति / ज्ञो नित्यश्चिद्रप आत्मा अत एव चिद्रपब्रह्मण एवानाद्यविद्ययाऽनादिजीवभावेन स्थित्वादिति सूत्रार्थः / द्रष्टरि दृष्टिशब्दश्रवणादप्यात्मा. चिद्रपइत्याह- न हि द्रष्टुरिति / ननु द्रष्टुः संबन्धिन्या दृष्टेरिति तयोर्भेद एवास्या अर्थ इत्याशङ्कयाह-व्यधिकरणेति / व्यधिकरणषष्ठीपरिग्रहोऽपि सिद्धान्ते समञ्जस इति वक्तुं परमते तदसामञ्जस्यमाह-अन्यथेति / सुषुप्तौ करणव्यापारोपरमात्सर्वशानाभावशङ्कायां रूपादिविषयकवृत्तिज्ञानोपरमेऽपि साक्षिरूपज्ञानस्योपरमो