________________ प्रथमः परिच्छेदः 177 सिद्धान्त्यभिमततकस्यातिप्रसङ्गनिराकरण: एतेन सम्बन्धाभावेन ज्ञानस्यात्मधर्मत्वनिराकरणे ज्ञानत्वमपि ज्ञानधर्मो न भवेत् / ज्ञानत्वानधिकरणमपि ज्ञानं चेत् ज्ञानानधिकरणमपि ज्ञानात्मकमस्त्विति केन चिदुक्तं परास्तम् / ज्ञानत्ववन्निईर्मकज्ञानाभ्युपगमे बाधकामावात् / ज्ञातृत्वं तु सखण्डमेवेति न ज्ञान बिना तत्सिडिरिति विशेषः / न च सुषुप्तौ ज्ञानाभावात्कथं स आत्मेति वाच्यम् / तत्रापि तत्संभवस्योक्तस्वात् / किञ्च भूतौ हि तत्र तत्र ब्रह्मविज्ञानात्सर्वविज्ञानं श्रूयते / जीवश्चानादिः / उत्पत्तिमत्व विनाशप्रसङ्गात् / कृतहान्यादेरप्यापत्तेः / न चाग्निविस्फुलिङ्गादिदृष्टान्तेन जीवस्योत्पत्तिः श्रूयते ज्ञानस्यैकत्वात्तत्र ज्ञानत्वाभाव इष्ट इत्याशङ्कयाह-ज्ञानत्वेति / ज्ञाने ज्ञानत्वानभ्युपगमे किभनुगतव्यवहारानुपपत्तिः, किं वा तस्येतरभेदानुपपत्तिः, किं वा तदसाधारणधर्माभावे तस्य वस्तुत्वानुपपत्तिः / न च सर्वथाऽपि / पराभिमतज्ञानत्वे तद्गतासाधारणधर्माभावेऽप्युक्तस्य सर्वस्योपपत्तिवदेकज्ञानस्वरूपादेव तत्सर्वोपपत्तिरित्यभिप्रेत्याह-ज्ञानत्ववदिति / ननु ज्ञानत्वेऽपि ज्ञानत्वतैवासाधारणो धर्मस्त यावर्तकोऽस्तीति चेन्न / एकव्यक्ती जातेरयोगात् / ननु ज्ञानेतरावृत्तित्वे सति सकलज्ञानवृत्तित्वलक्षणोपाधिरेव ज्ञानत्वतेति चेन्न। ज्ञानेतराद्यनेकपदार्थात्मकस्य सखण्डोपार्ज्ञानत्वासाधारणधर्मतायोगात् / किश्च ज्ञानत्वस्य घटत्वादिना भेदग्रहे सत्येव ज्ञानेतरावृत्तित्वलक्षणव्यावत्तकधर्मग्रहः / तद्ग्रहे च ज्ञानत्वस्य घटत्वादिना भेदग्रह इति परस्पराश्रयापत्तः / एवं तत्तद्धर्मेषु तथाविधाप्रामाणिकानन्तधमकल्पनागौरवात्प्रमेयत्वादावेतादृशधर्मासंभवाच्च / ज्ञानत्वं स्वरूपविशेषादेवेतरव्यावृत्तमनुगतज्ञानालम्बनं चेत्यवश्यमभ्युपेयम् एवमस्मन्मते ज्ञानमपीति भावः। तर्हि ज्ञानाश्रयत्वं विना न ज्ञातृत्वमित्युक्तं दूषयति-ज्ञातृत्वमिति / ननु ज्ञानात्मनोरभेदे सुषुप्तावपि ज्ञानं स्यात् तथा च सुषुप्तित्वभङ्ग इत्य शङ्कयानित्यज्ञानोपरमस्यैव सुषुप्तित्वान्नित्यज्ञानं तदाप्यस्तीत्याहन च सुषुप्ताविति / चिद्रपब्रह्माभेदादपि प्रत्यगात्मा चिद्रप इति वक्तुमभेदे तावच्छतार्थापत्तिमुद्भावयति-किञ्चेत्यादिना / जीवस्य घटादिवब्रह्मकार्यत्वेऽपि तद्विज्ञानात्सर्वविज्ञानसिद्धिरित्याशङ्कय तस्याकायत्वमाह -- जीवश्चेति / "यथाग्नेः क्षुद्रा विस्फुलिङ्गा व्युच्चरन्ति” इत्यादि श्रत्यर्थे भ्रान्तस्य तान्त्रिकस्य चोद्यमपवदति-न चाग्नीति / दृष्टान्तश्रुतेः प्रत्यक्षसिद्धार्थानुवादित्वात्प्रत्यक्षेण चाग्न्यवयवानामेव सतां विविक्तानां