________________ 176 सटीकाद्वैतदीपिकायाम् कुतर्कत्वं चास्मत्तस्य स्वव्याघातकत्वात् प्रतितर्कपराहतत्वावा, नोभयमपि / प्रत्युत प्रतीतिमात्रेणाविवेकियाधरहितेन गुणगुणिभाव व्यवस्थापयतस्तवैव तर्कः कुतर्कः / मायिकरजतदेहात्मभावव्यापकत्वात्। यत्तु ज्ञानतादात्म्यं ज्ञानसंबद्धस्य चेत संबन्धस्य भेदगर्भत्वाव्याघाता, असंबडस्य चेदतिप्रसङ्ग इति / तन्न। धर्मज्ञानवादे ज्ञानस्य स्वेनेव ज्ञानात्मवादेऽपि स्वेन संबन्धान्तरमन्तरेणाभेदसंभवात् / भिन्नयोरेव संबन्धापेक्षणात् / अन्यथा त्वदुक्तयुक्त्या त्वमपि त्वदभिन्नो न भवेरिति तव निरात्मतापत्तिः / ननु भिन्नयोरैक्यं संबन्धं विना न भवतीति चेन्न / भिन्नत्वैकत्वयोरेकासमवायात्। कल्पितभेदयोरिति चेत्तर्हि स एव स इति किं संबन्धेन / तिरिक्तदोषाजन्यत्वादर्थक्रियासामर्थ्य च मिथ्यात्वेप्युपपद्यत इत्यर्थः / ननु व्यावहारिकत्वप्रयोजकमेव सत्त्वप्रयोजकमित्यत आह-दुर्निरूपस्यापीति / असद्वैलक्षण्यमात्रेणोक्तरूपसंभवान्न युक्तिविरुद्धसत्त्वसिद्धिरित्यर्थः। गुणगुण्यादिभावे बाधकतर्कस्य कुतर्कत्वमुक्तमसहमानः पृच्छति-कुतर्कत्वं चेति / लौकिकवैदिकव्यवहाराविरुद्धत्वादद्वैतानुकूलत्वाच्च न स्वव्याघातकत्वं, प्रतितर्कस्य दूषितत्वान्न तत्पराह. तिश्चेत्यभिप्रेत्याह-नोभयमपीति / न्यायानुग्रहीतश्रुतिबाधितत्वात्प्रपञ्चसत्त्वसाधकतर्कः एव कुतर्क इत्याह-प्रत्युतेति / भवत्तकस्य संप्रतिपन्नमिथ्यापदार्थेऽपि प्रसरात्कुतर्कत्वमित्याह-मायिकेति / ज्ञानात्मनोरभेदेऽपि प्रतितर्कपराहतिं चोद्यमनुवदतियत्त्विति / विनाऽपि सम्बन्धं स्वरूपविशेषादेवाभेद इति मतान्तरेऽपि संमतमित्याह -तन्नेति / अतर्कत्वद्योतनाह -अन्यथेति / अद्यापि ज्ञानात्मनोर्भेदं सिद्धवत्कृत्य शङ्कते-ननुभिन्नयोरिति / किं वस्तुतो भिन्नयोरित्यभिप्रेतभुत कल्पितभेदयोरिति ? आये तदैक्यमेव नातीत्याह-न भिन्ने'त / द्वितीयमनूदा दूषयति–कल्पितेति // सिद्धान्ताभिमततर्कस्याप्यतिप्रसङ्गम भिमन्यमानस्य तस्य नवीनस्य चोद्यमनूध निराकरोति-एतेनेति /