________________ प्रथमः परिच्छेदः 175 ख्यार्था / घटादौ तु रूपादिर्न सोपाधिकः / तत्रोपाधेरदर्शनात् / किं तु रज्जुसर्पवनिरुपाधिक एव / न च रज्जुसर्पवन्न मिथ्यात्वबुद्धिस्तत्रेति वाच्यम् / अविद्यातिरिक्तदोषाजन्यत्वेन घटादिज्ञानानिवर्त्यत्वेन चाविचारदशायां तदभावेऽपि विचारदशायां तत्सत्त्वात् / देहात्मतादात्म्यवत् / / घटरूपादेवलक्षण्येन नवीनमतं निरस्यति / एतेन घटतद्रूपादेस्त्वदुक्तकुतर्कबाधितं चेत् गुणगुणित्वं तर्हि गगनस्येव तत् प्रातिभासिकं स्यात् / तस्य व्यावहारिकत्वे तदूग्राहकयुक्त्यैव तत्पारमार्थिकमित्यस्मन्मतमिति नवीनोक्तं परास्तम् / उक्तयुक्तीनां वास्तवधर्मत्वप्रतिकूलत्वात् / मिथ्यात्वेऽपि व्यवहारकाले तेषामधिष्ठानज्ञानाभावेन वर्तमानतयाऽविद्याs. तिरिक्तदोषाजन्यतया चार्थक्रियासामर्थ्यात सत्यत्वायोगात दुर्निरूपस्याप्येतावता पारमार्थिकत्वोक्तो काममभिधीयताम् / संज्ञामात्र विवादपर्यवसानात् / मिति श्रुत्यर्थः / 'कामः सङ्कल्प" इत्यादिश्रुतेरुपक्रमविरोधादन्यपरत्वं शङ्कतेननु मनसेति / कामादेर्मनोविकारत्वेऽपि करणत्वश्रुतिरविरुद्धत्याह-न विज्ञानेति / रूपादेर्घटादावारोपितत्वेऽप्यात्मन्यारोपितबद्धयादिवैलक्षण्यमाह-घटादाविति / रज्जुसर्पवद्रपादेर्निरुपाधिकाध्यासत्वेऽपि व्यवहारदशायां बाधास्यादित्याशङ्कयाहन च रज्जुसर्पवदिति / किं मिथ्यात्वनिश्चयो बाधः, उत सविलासाविद्यानिवृत्तिः आद्यस्त्विष्ट एव / द्वितीयस्तु रूपाद्युपादानमूलाज्ञाननिवतेकज्ञानाभावादेव नास्तीत्यभिप्रत्याह-अविद्येति / घटरूपादे रज्जुसर्पवैलझण्याभिधानादेव नवीनप्रलापोऽपि निरस्त इत्याहएतेनेति / एतेनेति / गगनस्येवेति / तद्गतरूपादिवदित्यर्थः। यदुक्तं, व्यावहारिकत्व. साधकयुक्त्या पारमार्थिकत्वसिद्धिरिति तत्राह-उक्तयुक्तीनामिति / ननु रूपादेरारोपितत्वे यावदाश्रयभावित्वमर्थक्रियायोग्य त्वं च न स्यादित्याशङ्कयान्यथोपपत्त्या दुषयति-मिथ्यात्वेऽपीति / व्यवहारकालेऽधिष्ठानज्ञानाभावाद्यावदाश्रयभावित्वमविद्या