________________ 174 सटीकाद्वैतदीपिकायाम् मिथ्यातादात्म्यादिरूपत्वात् / मतान्तरे प्रपश्चात्एन्ताभावस्यासम्बन्धेऽपि न काचित् क्षतिः / नाभावसम्बन्धः शास्त्रेण प्रतिपाद्यते। रूपादिगुणानामवास्तविकत्वम् / नचाभिहितप्रकारेण रूपादेरपि न घटादिगुणत्वं स्यादिति वाच्यम् / वस्तुतस्तदभावस्येष्टत्वात् / प्रतीतेस्त्वनिर्वचनीयगुणगुणिभावविषयत्वात् / एतावांस्तु विशेषः / बुद्ध्यारोपोऽन्तः करणावच्छिान आत्मनि सोपाधिकः / “कामः सङ्कल्पो वेचिकित्सा श्रद्धाऽश्रद्धा धृतिरधृतिहीं(6रित्येतत्सर्वं मन एव" इति श्रुत्या परिशेषोबलिया बुद्धेरन्ताकारणधर्मत्वेन सिद्ध. त्वात् / केवलात्मनि च "नान्तःप्रज्ञानं न बहिःप्रज्ञ" इत्यादिश्रुत्या दर्शितोपपत्त्या च विज्ञानाभावस्य सिद्धत्वात्। ननु "मनसा ह्येव पश्यति" इति विज्ञान प्रति मनसः करणत्वश्रुतेस्तस्य मनोधर्मत्वश्रुतिरौपचारिकीति चेन्न / विज्ञानधर्मिणो मनस आत्मनि विज्ञानारोपनिमित्ततया करणत्वात् / कुसुमस्य स्फटिकारुणिमारोपे करणत्ववत् / एवं चोभयश्रुतिर्मु नन्वभावत्वेनाश्रितत्वमनुमीयते इति चेन्न / भावत्ववदप्रयोजकत्वात् / वस्तुतः शास्त्राप्रतिपाद्यस्वरूपसम्बन्धसत्त्वेऽपि न दोष इत्यपिशब्दप्रयोगः / ज्ञाने. सम्वन्धनिराकरणादेः रूपादावपि तुल्यत्वात्तस्यापि गुणत्वादिकं न सिद्धयतीत्याशङ्क्याह--न चाभिहितेति / ___अस्तु तर्हि घटादिवदात्मनोऽपि अनिर्वचनीयं बुध्यादिगुणकत्वमेव स्वा. भाविकंन निर्गणत्वमित्याशङ्ख्यात्मनि बुद्ध्यादिसंबन्धस्यौपाधिकत्वात् तत्समानसत्ताकत्वाभावात्तदज्ञानजन्य त्वात्तज्ज्ञाननिवर्त्यत्वाच्च न स्वाभाविकमित्याहएतावास्त्विति / बुद्ध्यादिकं क्वचिदाश्रितम् / गुणत्वात् / रूपवत् / न चात्मा तदाश्रयः / तस्य निरवयवकूटस्थस्याव्याप्यवृत्तिजन्यबुद्ध्याद्याश्रयत्वानुपपत्तः / पृथिव्यादेस्तदाश्रयत्वं दृरतो निरस्तमिति परिशेषादन्तः करणमेव तदाश्रय इत्याह-परिशेषेति / स्वप्नोपलब्धिरन्तः प्रज्ञा, जाग्रदुपलब्धिर्बहिःप्रज्ञा तदुभयरहित