________________ प्रथमः परिच्छेदः 173 वायानन्त्यप्रसङ्गन तस्यैवासिद्धेः। स्वरूपसम्बन्धेनैव तदनुमानेऽर्थान्तरत्वात् / बुद्ध्यवच्छिन्नसमवायस्य तव मते केवलसमवायादनन्यत्वाच / यदन्न केनचिदुक्तम, समवायस्यैकत्वेऽपि भवन्मते मोक्षे सुखस्फुरणसत्त्वेऽपि दुःखस्फुरणाभाववत् घटेऽन्यसमवायसत्त्वेऽपि संवित्समवायो नास्तीति / तन्न / आत्मन एव निःसुखस्फुरणरूपत्वेऽपि मोक्षे दुःखतादात्म्पाभावेन तदस्फुरणात् / न तु स्फुरणविरहात् / यस्मिंस्तु संसारिणि दुःखमस्ति तदपि तनिष्ठत्वेन ब्रह्मीभूतो मुक्तोऽवगच्छतीति / न तृतीयः। बुद्धेरिदानों ज्ञानं ज्ञातो घट इत्याद्यनुभवेन कालादिनाऽपि स्वरूपसम्बन्धसत्वात् / नापि सम्बन्धं विनैव बुडिरामगुण इति पक्षः शोभते / अति. प्रसङ्गात् / यत्तु नवीनोक्तं रूप्यादेदृश्यत्वादिना यः सम्बन्धः, अभावदैतमते अभावात्मनोः यः सम्बन्धः स एव बुद्ध्यात्मनोरिति / तन्न / मिथ्याधर्मिकधर्मस्यापि मिथ्यात्वेन तदुभयसम्बन्धस्यापि कत्वं स्वरूपसंबन्धेन तदवच्छेदे समवायमात्रस्यैवावछिन्नत्वाद्धटेऽपि तत्प्रसङ्ग इति भावः / अत्र नवीनोक्तां प्रतिबन्दी दूषयितुमनुवदति-यदत्रेति / एकजीववादे मुक्ती दुःखाभावादेव तद्विशिष्टस्फुरणाभावोपपत्तिरित्याह-तन्न आत्मन एवेति / अनेकजीववाद ईश्वरस्येत्र मुक्तस्यापि दुःखस्फुरणमस्तीत्याह-यस्मिंस्त्विति / गुणगुणिनोः स्वरूपसंबन्ध इति पक्षं प्रतिक्षिपति-न तृतीय इति / बुद्धेः स्वरूपसंबन्धसत्त्वादित्यन्वयः / नवा किमपीति पक्षे दोषमाह-नापि संबन्धमिति / बुद्धयात्मनोः संयोगादि. संबन्धाभावेऽप्यन्यः संबन्धो भविष्यतीति नवीनोक्तं चोद्यमनुवदति-यत्त्विति / भिप्रेत्योक्तमभावद्वैतमत इति / दृश्यत्वादिना शुक्तिरूप्यादयः संबन्धः स बुद्ध्यास्मनोमतद्वयेऽपि न सम्भवतीत्याह - तन्नेति / अभावद्वैतमते चाभावात्मनोः संबन्ध एव नास्ति / शास्त्रस्याखण्डार्थपरत्वान्मानान्तरस्य च तत्राभावाच्चेत्याह-- मतान्तर इति //