________________ 172 सटीकाद्वैतदीपिकायाम् द्वितीयेऽप्यभेदसमानसत्ताको भेदः, किंवाऽनिर्वचनीयः ? / नाद्यः। विरोधात् / न द्वितीयः / त्वयाऽनभ्युपगमात् / अभ्युपगमे वा ज्ञानात्मनोरभेद एव वास्तव इति सिद्ध नः समीहितम् / नापि तृतीयः। घटादेरपि बुद्धिगुणत्वप्रसङ्गात् / ननु ज्ञानसमवायो घटादौ नास्तीति चेत् किं स्वरूपेण नास्ति किं वा ज्ञानाभावात् / नाद्यः / घटादावपि रूपादिसमवायसवात् तस्य च ज्ञानसमवायाभेदात् / नापि द्वतीयः / ज्ञानस्याप्यात्मनि सत्त्वात् / तथापि घटे नास्तीति चेन्न / विद्यमाने ज्ञाने तत्समवाये घटे च सति ज्ञानं नास्तीति वचनस्य व्याहतत्वात् / न हि घटसंयोगाश्रये भूतले घटाभावो भवति / यत्र यस्य कार्यस्य समवायसम्बन्बो वर्तते तत्तस्य समवायिकारणमिति घटादेरपि बुद्धिसमवायिकारणत्वात् / घटादेबुद्धिसभवायित्वनिरःसः / __ अथ बुद्ध्यवच्छिन्नसमवायाभावात् घटो न बुद्धिसमवा. योति चेन्न / बुद्ध्यवच्छिन्नसमवायत्वेन तस्य तत्सम्बन्धत्वे सम द्वितीय इति। ज्ञानविशिष्टसमवायस्य घटादावसत्त्वानोक्तदोष इति शङ्कते---- नन्विति / किं विशेष्याभावा द्विशिष्टाभावः उत विशेष भावादिति विकल्प्य क्रमेण दूषयति-किं स्वरूपेणेति / आत्मनि सतोऽपि ज्ञानस्यात्मत्ववद्धटेऽभाव इति शङ्कते-तथापीति / तद्वृत्तिप्रयोजकसंबन्धे सति तदभावाभिधानं व्याहतमित्याहविद्यमान इति / तत्संबन्धवति तेनापि भवितव्यमत्रोदाहरणमाह-न हि घटेति / ननु समवायिकारणस्यैव कार्याश्रयत्वान्न घटे ज्ञानमित्याशङ्कय तव मते घटोऽपि तथा किं न स्यादित्याह-योति / यत्र कारणे इत्यर्थः / अतो न गुणादौ प्रसङ्गः // ___ ननु यत्र यदवच्छिन्नसमवाय इति विवक्षितत्वान्न घटादर्बुद्धिसमवायित्वमिति चोदयति अथेति / समवायस्यावच्छिन्नत्वाकारेण विशिष्टव्यवहारनियामकत्वे सोऽप्रामाणिक एव स्यादित्याह-न बुद्ध्यवच्छिन्नेति / किंच बुद्धयवच्छिन्नसमवायोऽपि घटेऽस्तीत्याह-बुद्धयवच्छिन्नेति / समवायस्य बुद्धिसंबन्धाभावान्न तदवछेद