________________ प्रथमः परिच्छेदः 171 मेव स्वस्मिन् वर्तते। ननु प्रमेयत्वादेरेकत्वेऽपि धर्मधर्मिभावो दृष्ट इति चेत , अस्तु प्रमेयत्वे प्रमेयत्वदर्शनात्। न च तदेकत्वे किश्चिन्निदानमस्ति / न च प्रसाधितनित्यानुभवस्यात्मधर्मत्वमनुभूयते / जानामीति प्रत्यक्षस्यानित्यवृत्तिज्ञानविषयत्वस्योक्तत्वात्। एतेन दृश्यत्वे दृश्यत्ववदभेदेऽपि धर्मधर्मिभाव इति प्रत्युक्तम् / प्रमेयत्ववदृश्यत्वेऽप्येकत्वासिद्धः / अभेदस्य ब्रह्मस्वरूपत्वेऽपि तयोगुणगुणिभावोपपत्तिरित्युक्तमुल्लिख्य शङ्का / एतेन ब्रह्माभेदयोरभेदेऽपि ब्रह्म जीवाभिन्नमित्यबाधितविशेषणविशेष्यभाववदभेदं प्रति एकस्य धर्मिप्रतियोगिभाववच गुणगुणिभावोपपत्तेरित्यपि प्रत्युक्तम् / अभेदो न धर्मः किन्तु स्वरूपमिति निश्चयदशायां ब्रह्माभिन्नमिति व्यवहारासिद्धः, ब्रह्म जीवस्वरूपमित्येव व्यवहारात् / तदनिश्चयदशायां त्वभेदस्य ब्रह्मणो भेदारोपेण तव्यवहारोपपत्तेः। एकत्वे धर्मधर्मिभावानुपपत्तेरेव बाधकत्वात् / एवं धर्मिप्रतियोगिभावव्यवहारोऽपि / कस्यतस्य धर्मधर्मिभाव इत्याह-अस्त्विति / वस्तुतस्तदेकत्वेऽपि भेदो भिन्न इतिवत् प्रमेयत्वं प्रमेयमिति बुद्धेरपि धर्मिस्वरूपमात्रविषयत्वोपपत्तेर्न धर्मधर्मभाव इति द्रष्टव्यम् / प्रमेयत्वात् प्रकृते वैषम्यमाह-न च प्रसाधितेति / ननु दृश्यत्वे दृश्यत्वाभावे तस्मिन् मिथ्यात्वासिद्धेस्तस्य स्ववृत्तित्वमावश्यकमित्यत आह-एतेनेति ! एतच्छब्दार्थमाह - प्रमेयत्ववदिति / ननु यथा शास्त्रार्थाभेदस्य ब्रह्मस्वरूपत्वेऽपि तयोविशेषणविशेष्यभावः, यथा वा शोधिततत्त्वंपदार्थयोरभेदं प्रति धर्मिप्रतियोगिभावः, एवमभेदेऽपि गुणगुणिभावोपपत्तिरिति तत्राह-एतेनेति / किमभेदादेब्रह्मस्वरूपत्वनिश्चयदशायां विशेषणविशेष्यभावादिरुतानिश्चयदशायाम् ? नाद्य इत्याह---अभेद इति / द्वितीयेऽनिर्वचनीयभेदसंभवाद्विशेषणवि. शेष्यभावादिरित्याह--तदनिश्चयदशायामिति / विशेषणत्वादेरारोपितत्वे हेतुमाहएकत्व इति / आरोपितभेदादेव धर्मिप्रतियोगिभावोऽपीत्याह-एवमिति / भेदसमानाधिकरणाभेदस्तादात्म्यमिति पक्षे भेदः किं पराभिमत उतास्मदभिमत इति विकल्प्य दूषयति -द्वितीय इति / गुणगुणिनोः समवाय इति पक्षं दूषयति---नापि