________________ 170 सटीकातदीपिकायाम् नानिर्वचनीयं किंतु वास्तवमिति मते आत्मैव बुद्ध्यादिरूपेण जायते विनश्यति चेति कथं न कौटस्थ्यहानिः / ज्ञानिनोऽविद्यानिवृत्तिवदात्मनिवृत्तनिरसनम् / न चाविद्यानाशेऽप्ययं दोषः समानः। अविद्याया आत्मव्यतिरेकेणानिर्वचनीयसत्त्वाभ्युपगमात् / अविद्यानिवृत्तो कूटस्थात्ममात्रत्वाच्च। किञ्चबुद्धयादिरात्मनि व्याप्य वर्तते उत, तत्प्रदेशे 1 / नाद्यः / शरोरबाह्यप्रदेशेऽपि तदुपलम्भप्रसङ्गात् / न द्वितीयः। निरवयवस्य प्रदेशाभावात् / नन्वौपाधिकः प्रदेशोऽ. स्तीति चेन्न / उपाधिज्ञाप्यस्तज्जन्यस्तदधीनः प्रदेशो निष्प्रदेशे नास्तीत्युक्तत्वात् / एवमात्मनस्तहेतुसम्बन्धानुपपत्तिश्च बाधकस्तः। कि च ज्ञानात्मनोस्तादात्म्यं सम्बन्धः, किंवा सावायः, उत स्वरूपं, न वा किमपि 1 / आये किं तादात्म्यमत्यन्ताभेद एव, उत भेदसमानाधिकरणोऽभेदः। आधे धर्मधर्मभावानुपपत्तिः। नहि स्वय कारणाभिन्नकार्यसत्यत्वे तद्विकारेण कारणमपि विकारि स्यादेवेत्याह-तच्च रूपान्तरमिति / यदुक्तमविद्यानिवृत्त्याप्यात्मनोऽपि निवृत्तिप्रसङ्गादिति तत्राह-- न चाविद्येति / अविद्यातदधिष्ठानयोरनिर्वचनीयभेदाङ्गीकारात्तत एव तद्विकारोऽपि व्यवस्थित इत्यर्थः / अधिष्ठानात्मव्यतिरेकेणाविद्यानिवृत्त्यभावान्न ततस्तस्य विकारप्रसङ्ग इत्यत आह-अविद्यानिवृत्तेरिति / बुद्धयादेरात्मनि बृत्त्यनिरूपणादपि न तद्नुगुणत्व मित्याह-किञ्च बुद्धथादिरिति / द्वितीयं पक्षमादाय शङ्कते-नन्वौपाधिक इति / निरवयवसंयोगनिरासेनैवेदं निरस्तमित्याह-न उपाधीति / पराभिमतासमवायिकारणासंभवादपि नात्मनि ज्ञानगुणारम्भ इत्याह-एवमात्मन इति / ज्ञानात्मनोः सम्बन्धानिरूपणादपि न गुणगुणिभाव इत्याहकिञ्चेति / अत्यन्ताभेदे गुणगुणिभावप्रयोजकधर्मधर्मभावानुपपत्तिरित्याह-आद्य इति / एकत्वेऽपि धर्मधर्मभावदर्शनात् प्रकृतेऽपि न तस्य विरोध इति शङ्कतेननु प्रमेयत्वादेरिति / प्रमेयत्वस्य प्रमातद्विषयरूपत्वेन प्रमाभेदेन तस्यापि भिन्नत्वा