________________ प्रथमः परिच्छेदः 169 न, यत्किश्चित्कालीनपदार्थ:तियोगिकध्वंसानाधारत्वस्य द्वितीयक्षणेऽपि सत्वात् चरमध्वंसकालीनकार्यपदार्थाभावेन तद्ध्वसाभागत् तदनाधारकालस्याप्रसिद्ध्या चरमध्वंसे तादृश. कालाधारत्वस्थासंभवात् / न च चरमध्वंसासिडिः / सर्वमुक्ताव. दृष्टाभावेन कार्यमानस्याभावात् / तस्मानासत्कार्यवादो युज्यते / सरकार्यवादपरीक्षा सत्कार्यवादेऽपि यदि कार्यसत्त्वं कारणाद्भिन्नं तर्हि कारणान्वेषणं व्यर्थम् / तेन विनापि तत्सत्त्वात् / अनुप. लब्धेश्च / अवस्थाविशेषः कार्यमिति पक्षोऽपि विशेषस्य प्राग् सत्वासत्वाभ्यां प्रतिवक्तव्यः / तस्मात्कारणमेव कार्यस्य स्वरूपम् / तेन तेन कारणेन तत्तदत_कार्यरूपमापद्यते / तच्च रूपान्तरं द्वितीये घटकालीननित्यपदार्थप्रतियोगिकध्वंसाभावादसंभवः / तृतीये घटकालीनत्रिचतुरपदार्थप्रतियोगिकयावत्ध्वंसानाधारत्वं द्वितीयक्षणेप्यस्तीत्यतिव्याप्तिरेव / ननु, स्वसमानकालीनयावदनित्यपदार्थप्रतियोगिकध्वसानाधारत्वं विवक्षितमिति चेत् तत्र किं यावद्ध्वंसानाधारत्वं यावद्ध्वंसाधारभिन्नत्वमुत, यावद्ध्वंसात्यन्ताभाववत्वम् / आये द्वितीयक्षणेऽतिव्याप्तिः। द्वितीये यावद्ध्वंसप्रतियोगिकसामान्याभाववत्त्वं उत, तत्प्रतियोगिकयावद्विशेषाभाववत्त्वम् / नाद्यः / ध्वंसेषु सामान्याभावेन तदवच्छिन्नप्रतियोगिकसामान्याभावायोगात् / न द्वितीयः / भावस्य स्वात्यन्ताभावसमानकालीनत्ववदभावानामपि तथात्वात् / अन्यथा तदत्यन्ताभावस्य त्रैकालिकत्वानुपपत्तेः / तथा च द्वितीयक्षणोत्पन्नध्वंसदेशे तदत्य. न्ताभावाभावेऽपि तत्क्षणे तदत्यन्ताभवस्यापि तथात्वादतिव्याप्ति१निवारेति भावः / चरमध्वंसोत्पत्तौ अव्याप्तिमप्याह-चरमेति / ननु कार्यप्रवाहस्यानादित्ववदनन्तत्वात्कुतश्वरमध्वंसः, कुतस्तरामव्याप्तिरित्यत आह--न चेति / सर्वमुक्तयभावे स्वस्य नित्यसंसारित्वशङ्कया कस्यापि निःशङ्कप्रवृत्त्यनुपपत्तर्मोक्षशास्त्रमनाकमेव स्यादिति भावः। असदुत्पत्तिनिराकारणमुपसंहरति--तस्मादिति / सत्कार्यवादेऽपि कार्यकारणयोः सत्त्वभेदे दोषमाह--सत्कार्यवादेऽपीति / उत्पत्तेः पूर्व कार्थसत्त्वे प्रमाणमपि नास्तीत्याह--अनुपलब्धेश्चेति / आरम्भवादोक्तदोषं परिणामवादेऽप्यतिदिशति-अवस्थाविशेष इति / किं तर्हि कार्यतत्त्वमित्याशङ्कय कारणमेव वास्तव रूपं कार्याकारस्त्वनिर्वाचनीय इत्याह-तस्मात्कारणमेवेति-तेन तेनेति / तत्तनिमित्तकारणेनेत्यर्थः / अनिर्वाचनीयवादे कार्यविकारेण कारणस्याविकारित्वेऽपि 22