________________ 168 सटीकाद्वैतदीपिकायाम् यसम्बन्ध उत्पत्तिः / सम्बन्धस्य संयोगत्वे तस्योत्पत्यनन्नरभावित्वात्। समवायत्वे घटादेः काले तदभावात् / नापि स्वरूपसम्बन्धः। तस्य स्वरूपद्वयात्मत्वे समवायस्यापि घटोत्पत्तित्वप्रसङ्गः। घटस्यापि स्वोत्पत्तित्वेनोत्पन्नो घट इति प्रतीत्यनुपपत्तेश्च, समयस्याद्यत्वाभावाच्च / न च स्वसमानकालीनपदार्थप्रतियोगिकध्वंसानाधारसभयाशरत्वं कार्यस्याद्यसमयसम्बन्ध इति वाच्यम् / स्वपदेनोत्पश्यमानपदार्थाभिधान आत्माश्रयात, उत्पत्तेरेव निरूप्यमाणत्वात् / वस्तुमात्राभिधाने च द्वितीयक्षणावच्छिन्नघटस्याप्युत्पत्तिप्रसङ्गः / तस्यापि द्वितीयक्षणावच्छिन्नस्वसमानकालीनपदार्थप्रतियोगिकध्वंसानाधारद्वितीयक्षणे सत्वात् / ननु प्रथमक्षणोऽपि तत्क्षण इति तत्कालस्थितिकशब्दादिध्वंसस्य द्वितीयक्षणे सवात्, न तत्प्रसङ्ग इति चेत् // स्वरूपसम्बन्यो वा ? आद्य दोषमाह-सम्बन्धस्येति / गुणादौ संयोगाभवाच्चेति द्रष्टव्यम् / द्वितीये कारणे समवाय इत्यत्रोक्तदूषणे सत्येव दोषान्तरमाह - समवायत्व इति / असतो निःस्वरूपत्वात्स्वरूपद्वयात्मकसम्बन्धो न सम्भवतीत्याह-नापोति / दूषणान्तरमाह-तस्येति / घटो घटवानितिवदुत्पत्तिमानित्याद्यनुभवोऽपि न स्यादित्याह-घटस्यापीति / समयस्यैकत्वेनाद्यसमयोऽपि नास्तीत्याह-- सारस्येति / एकस्यापि समयस्य परैर्विवक्षितमाद्यत्वं निराकरोति-न च स्वसमानेति ! स्वं कार्यत्वेनाभिमतं घटादि तत्कालीना ये पदार्थाः शब्दबुद्धयादयस्तत्प्रतियोगिको यो ध्वंसः तदनाधारत्वं समयस्याद्यत्वम् / तत्समयाधारत्वं कार्यस्योत्पत्तिरित्यथः। किमत्र स्वपदेनोत्पद्यमानं विवक्षितं उत, वस्तुमात्रम् ? / आये आह-स्वपदेनेति / द्वितीयेऽतिव्याप्तिरित्याह-वस्तुमात्रेति / ननु स्वशब्दस्य क्षणविशेषाऽ. नवच्छिन्नकार्यस्वरूपपरत्वानोक्ता तिव्याप्तिरिति चोदयति-ननु प्रथमेति / तत्र किं स्वसमानकालीनयत्किञ्चित्पदाथप्रतियोगिकध्वंसानाधारत्वं विवक्षितं उत, तत्कालीनयावत्पदार्थप्रतियोगिकध्वंसानाधारत्वं, किं वा तत्कालीनपदार्थप्रतियोगिकयावद्ध्वंसानाधारत्वम् ? आद्य द्वितीयक्षणेऽतिव्याप्तिस्तदवस्थैव / घटकालोनमृदादिप्रतियोगिकध्वंसान धारत्वस्य तदापि सत्त्वादित्याह-न यत्किञ्चिदिति /