________________ प्रथमः परिच्छेदः 165 प्रागभावः / तत्काले कार्य किं सत् 1 तथा सति किं कारणे वर्तते, किं वाऽन्यत्र 1 न सर्वथापि / प्रागभावप्रतियोगिनोरेकदाऽवृत्तः। ज्ञानात्मनोरभेदविषयिण्यप्रयोजनकत्वशङ्कानिरासः कारणादन्यत्र कार्यस्यासमवायात् / अन्यसमवायिनोऽन्यानुपादेयत्वात् / प्रागभावकाले च प्रतिरोगिनः सत्तानभ्युपगमे कथं न नरशृङ्गतुल्यता। न हि प्रागभावसत्तैव प्रतियोगिनः सत्ता / अन्यसत्तयाऽन्यस्य सत्त्वेऽतिप्रसङ्गात् / ननु, नरविषाणं कालत्रयेऽप्यसत, कार्य तुत्पत्तेः पूर्वमिति वैषम्यमिति चेन्न / किञ्चिकालमसतः कालभेदेऽपि सत्वानुपपत्तेः / कि अमू सत्त्वासाचे पदार्थधर्मों स्वरूपं वा 1 / नाद्यः / असत्त्वकालेऽपि पदार्थसद्भावप्रसङ्गात् / अनित्यधर्मस्याश्रयादृते न नरशृङ्गेति / प्रागभाव एवाप्रभाणिक इति वक्ष्यते / तमङ्गीकृत्यापि तत्काले कार्य सदित्यङ्गीकारे दूषणमाह-अस्त्विति / प्रतियोगिनः प्रागभावनिवृत्तिरूपत्वात्तयोः समानकालत्वं विरुद्धमित्याह-प्रागभावेति / द्वितीयं दूषयति-कारणादिति / / अन्य समवायिनः पटस्य तन्तूपादानकत्वमपि न स्यादित्याद.--अन्यसमवायिन इति / उक्तदोषपरिहाराय प्रागभावकाले कार्यसत्त्वानभ्युपगमेऽनिर्वचनीयानङ्गीकाराव सत्यम व परिशिष्यत इत्याह-प्रागभावेति / ननु तत्प्रागभावस्य सत्त्वान्न तस्यासत्वमिति चेन्न। तत्सत्त्वेऽपि प्रतियोगिनोऽसत्त्वात् / न हि वन्ध्यासत्तया तत्पुत्रोऽपि सद्भवतीत्यभिप्रत्याह-न हीति / उत्पत्तः पर्वमसत्त्वाविशेषेऽपि नरविषाणाद्विशेषोऽप्यस्ति, तत उत्पत्तिरुपपन्नेति चोदयति--नन्विति / उत्पत्तौ सत्यां नरविषाणवैषभ्यम्, वैषम्ये च सति सेति परस्पराश्रयः स्यादित्यप्रेत्याह-न किञ्चित्कालमिति / कदाचिदसतः कालात्रयेऽप्यसत्त्वमुपपादयितुं विकल्पयति--किमाइति / आद्ये असत्वमेव धर्मिसत्तां विनानुपपन्नमित्याह-नाद्य इति / ननु प्रलये घटत्वादेरिव विनापि धर्मिणं धर्मोऽस्त्वित्याशङ्कय कादाचित्कधर्मस्य साश्रयत्वनियमादित्याहअनित्येति / किञ्च, धर्मिणः सत्त्वाभावे धर्मस्यैवानुपपरेस्तत्सत्त्वमावश्यक, तथाचोपजीव्यसत्त्वविरोधादसत्त्वमेव न स्यादित्याह-धर्मत्वे इति / द्वितीये वस्तुनो द्वैरूप्यं विरुद्धमित्याह-न द्वितीय इति / ननु यथा एकएव घटः श्यामो रक्तश्च